________________
प्रमेयद्योतिका टीका प्रति०१ स्थलचरपरिसर्पसंमूच्छिम पं. ति. जीवनिरूपणम् २५१ संमूच्छिमाः, भुजपरिसर्पसंमूच्छिमाः । अथ के ते उरःपरिसर्पसंमच्छिमाः ? उरःपरिसर्पसंमूच्छिमाश्चतुर्विधाः प्रज्ञप्ता स्तद्यथा-अहयः, अजगराः, आसालिकाः, महोरगाः अथ के ते अहयः ? अहयो द्विविधाः प्रज्ञप्ता स्तद्यथा-दीकराः मुकुलिनश्च । अथ के ते दर्वीकराः ? दर्वीकरा अनेकविधाः प्रज्ञप्ता स्तद्यथा आशीविषाः यावत् ते एते दर्वीकराः । अथ के ते मुकुलिनः १ मुकुलिनोऽनेकविधाः प्रज्ञप्ताः तद्यथा-दिव्या गोणसा यावत् ते एते मुकुलिनः । ते एते अहयः । अथ केते अजगराः ? अजगरा एकाकाराः प्रज्ञप्ताः, ते एते अजगराः। अथ के ते आसालिकाः ? आसालिका यथा प्रज्ञापनायाम् । ते एते आसालिकाः ॥ अथ के ते महोरगाः ? महोरगा यथा प्रज्ञापनायाम् । ते एते महोरगाः । ये चान्ये तथाप्रकारा स्ते समासतो द्विविधाः प्रज्ञप्ताः, तद्यथा-पर्याप्ता चापर्याप्ताश्च तदेव । नवरं शरीरावगाहना जघन्येनाङ्गुलासंख्येयभागम् , उत्कर्षेण योजनपृथक्त्वम् । स्थिति जघन्येनान्तमुहूर्तम् उत्कर्षेण त्रिपञ्चाशद्वर्षसहस्राणि । शेषं यथा, जलचराणाम् , यावच्चतुर्गतिका द्वयागतिकाः, परीता असंख्याताः प्रज्ञप्ताः, ते एते उरःपरिसर्पाः । अथ के ते भुजपरिसर्पसंमूच्छिमस्थलचराः ? भुजपरिसर्पसंमूच्छिमस्थलचरा अनेकविधाः प्रज्ञप्ताः तद्यथागोधा नकुला यावद् येचान्ये तथाप्रकारास्ते समासतो द्विविधाः प्रज्ञप्ताः, तद्यथा-पर्याताश्चापर्याप्ताश्च । शरीरावगाहना जघन्येनामुलासंख्येयभागम् उत्र्षेण धनुःपृथक्त्वम् । स्थिति रुत्कर्षेण द्विचत्वारिंशद्वर्षसहस्राणि । शेषं यथा जलचराणां यावच्चतुर्गतिका व्यागतिकाः । परीता असंख्याताः प्रज्ञप्ताः, ते एते भुजपरिसर्पसंमूच्छिमाः । ते एते स्थलचराः । अथ के ते खेचराः ? खेचराश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा चर्मपक्षिणाः, लोमपक्षिणः समुद्कपक्षिणः विततपक्षिणः । अथ के ते चर्मपक्षिणः, चर्मपक्षिणोऽनेकविधाः प्रज्ञप्ताः, तद्यथा-वग्गुलिनो यावद्येचान्ये तथाप्रकाराः, ते एते चर्मपक्षिणः ॥ अथ के ते लोमपक्षिणः ? लोमपक्षिणोऽनेकविधाः प्रज्ञप्ताः तद्यथा-ढङ्का कंकाः ये चान्ये तथाप्रकाराः ते एते लोमपक्षिणः । अथ के ते समुद्गकपक्षिणः ? समुद्कपक्षिण एकाकाराः प्रज्ञप्ताः यथा प्रज्ञापनायाम् । एवं विततपक्षिणो यावद् ये चान्ये तथाप्रकारास्ते समासतो द्विविधाः प्रज्ञप्ताः, तद्यथा-पर्याप्ताश्चापर्याप्ताश्च । नानात्वम् शरीरावगाहना जघन्येना
गुलासंख्येयभागम् उत्कर्षेण धनुःपृथक्त्वम् । स्थिति रुत्कर्षेण द्वासप्ततिवर्षसहस्राणि, शेषं यथा जलचराणाम् । यावत् चतुर्गतिका द्वयागतिकाः परीता असंख्याताः प्रज्ञप्ताः । ते एते खेचरसमूच्छिमतिर्यग्योनिकाः, ते एते संमूच्छिमपञ्चेन्द्रियतिर्यन्योनिकाः ।।२२।।
टीका- 'से किं तं थलयरपरिसप्पसंमुच्छिमपंचिंदिय तिरिक्ख जोणिया' अथ के ते स्थलचरपरिसर्पसंमूछिमपञ्चेन्द्रियतिर्यग्योनिकाः ? इति प्रश्नः, उत्तरयति-'थलयरपरिसप्प
જીવાભિગમસૂત્ર