________________
जीवाभिगमसूत्रे छाया-ते खलु भदन्त ! जीवाः किं सम्यग्दृष्टयो मिथ्यादृष्टयः सम्यमिथ्यादृष्टयः गौतम ! नो सम्यग्दृष्टयो मिथ्यादृष्टयः नो सम्यग मिथ्यादृष्टयः । ते खलु भदन्त ! जीवा किं चक्षुर्दनिनोऽचक्षुर्दर्शनिनोऽवधिदर्शनिनः केवलदर्शनिनः ? गौतम ! नो चक्षुर्दगिनः अचक्षुर्दर्शनिनः नो अवधिदर्शनिनः नो केवलदर्शनिनः। ते खलु भदन्त ! जीवाः किं ज्ञानिनोऽज्ञानिनः ? गौतम ! नो ज्ञानिनः अज्ञानिनः, नियमाद्वयज्ञानिनः तद्यथा - मत्यज्ञानिनः श्रुताशानिनश्च । ते खलु भदन्त ! जीवाः किं मनोयोगिनो वचोयोगिनः काययोगिनः ? गौतम! नो मनोयोगिनो, नो वचोवोगिनः, काययोगिनः । ते खलु भदन्त जीवाः किं साकारोपयुक्ताः, अनाकारोपयुक्ताः ? गौतम ! साकारोपयुक्ता अपि अनाकारोपयुक्ता अपि । ते खलु भदन्त ! जीवाः किमाहारमाहरन्ति ? गौतम ! द्रव्यतोऽनन्तप्रदेशिकानि क्षेत्रतोऽसंख्येयप्रदेशावगाढानि कालतोऽन्यतरसमयस्थितिकानि भावतो वर्णवन्ति गन्धवन्ति रसवन्ति स्पर्शवन्ति । यदा भावतो वर्णवन्ति आहरन्ति तदा किम् एकवर्णानि आहरन्ति द्विवर्णानि आहरन्ति त्रिवर्णानि आहरन्ति चतुर्वर्णानि आहरन्ति पञ्चवर्णानि आहरन्ति ? गौतम! स्थानमार्गणं प्रतीत्य एकवर्णान्यपि द्विवर्णान्यपि त्रिवर्णान्यपि चतुर्वर्णान्यपि पञ्चवर्णापि आहरन्ति । विधानमार्गण प्रतीत्य कालान्यपि आहरन्ति यावत् शुक्लान्यपि आहरन्ति । यदि वर्णतः कालानि आहरन्ति तदा किम् एकगुणकालानि आहरन्ति यावदनन्तगुणकालानि आहरन्ति ? गौतम ! एकगुणकालान्यपि आहरन्ति यादनन्तगुणकालान्यपि आहरन्ति एवं यावत् शुक्लान्यपि। यदि भावतो गन्धवन्ति आहरन्ति तदा किमे. कगन्धानि आहरन्ति द्विगन्धानि आहरन्ति ? गौतम ! स्थानमार्गणं प्रतीत्य एकगन्धान्यपि आहरन्ति द्विगन्धान्यपि आहरन्ति, विधानमार्गणं प्रतीत्य सुरभिगन्धान्यपि आहरन्ति दुर. भिगन्धान्यपि आहरन्ति । यदि गन्धतः सुरभिगन्धानि आहरन्ति तदा किम् एकगुणसुरभिगन्धानि आहरन्ति यावदनन्तगुणसुरभिगन्धानि आहरन्ति ? गौतम ! एकगुणसुरभिगन्धानि आहरन्ति यावदनन्तगुणसुरभिगन्धानि आहरन्ति । एवं दुरभिगन्धान्यपि । रसा यथा वर्णाः यदा भावतः स्पर्शान्त आहरन्ति तदा किम् एक-स्पानि आहरन्ति यावदष्टस्पानि ने आहरन्ति ? गौतम ! स्थानमार्गणं प्रतीत्य नो एकस्पर्शानि आहरन्ति. नो द्विस्पर्शानि आहरन्ति नो त्रिस्पर्शानि आहरन्ति चतुःस्पर्शानि आहरन्ति पञ्चस्पर्शानि यावदष्टस्पर्शानि आहरन्ति । विधानमार्गणं प्रतीत्य कर्कशान्यपि आहरन्ति यावद्क्षाण्यपि आहरन्ति । यदा स्पर्शतः कर्कशानि आहरन्ति तदा किमेकगुणकर्कशानि आहरन्ति यावदनन्तगुणकर्कशानि आहरन्ति एवं यावद्रक्षाणि नेतव्यानि । तानि भदन्त ! किं स्पृष्टानि आहरन्ति अस्पृष्टानि आहरन्ति ? गौतम ! स्पृष्टानि आहरन्ति नो अस्पृष्टानि आहरन्ति ? तानि भदन्त ! किम् अवगाढ़ानि आहरन्ति अनवगाढानि आहरन्ति ? गौतम ! अवगाढानि आहरन्ति नो अनवगाढानि आहरन्ति । तानि भदन्त ! किम् अनन्तरावगाढानि आहरन्ति परम्परावगाढानि आहरन्ति गौतम ! अनन्तरावगाढानि आहरन्ति नो परम्परावगाढानि आहरन्ति तानि भदन्त ! किम् अणूनि आहरन्ति बादराणि आहरन्ति ? गौतम ! अणून्यपि आहरन्ति बादयण्यपि आहरन्ति तानि भदन्त ! किम् ऊर्ध्वमाहरन्ति, अध आहरन्ति, तिर्यगाहरन्ति ? गौतम ! ऊर्ध्वमपि आहरन्ति अधोऽपि आहरन्ति तिर्यपि आहरन्ति । तानि भदन्त ! किमादौ आहरन्ति मध्ये आहरन्ति पर्यवसाने आहरन्ति ?
જીવાભિગમસૂત્ર