________________
२०
राजप्रश्नीयसूत्रे दिभ्यो नियोजनमायोगः, तस्य प्रयोगः-प्र-प्रकर्षेण योजनम् उपायचिन्तनम्
आयोगप्रयोगः, यद्वा आयोगेन-द्विगुणादिलिप्सया प्रयोगः अधमर्णानां सविधे द्रव्यस्य वितरणम् आयोगप्रयोगः, स संपयुक्तः प्रवर्तितो येन, तस्मिन वा सप्रयुक्तः संलग्नो यः स आयोगप्रयोगसंप्रयुक्तः द्रब्योपार्जनप्रवृत्त इत्यर्थः, तथा-विच्छतिविपुलभक्तपान:-विच्छर्दिते वि-विशेषेण छदिते= भोजनावशिष्टे भक्तपाने भक्तं च पानं च यस्य सः, तथा-बहुदासीदासगोमहिषगवेलकप्रभूतः-दास्यश्व दासाश्च गावश्च महिपाश्च गवेलका:-उरभ्राथेति-दासीदास. गोमहिषगवेलकाः, बहवः प्रचुरा दासीदासगोमहिषगवेलका यस्य सः, तथाबहुजनस्य जातिविवक्षयैकवचनं संबन्धसामान्ये षष्ठी, तेन बहुजनैरित्यर्थो बोध्यः, अत्र अपीत्यध्याहारा बहुजनैरपि अपरिभूतः पराभव रहितश्वासीत्। तथा-स चित्रसारथिः-सामदण्डभेदोपपदानार्थ शास्त्रेहामतिविशारदः-तत्र-साम =सान्त्व, दण्डा-दमः, भेदो-द्वैधीकरणम्. उपपदान दानम्-इत्येतासु चतसृषु राजनीतिषु तथा-अर्थशास्त्रे अर्थमाप्तिसाधनप्रतिपादके शास्त्रे, ईहा-मतौ ईहाविमर्शस्तत्प्रधाना मतिः बुद्धिस्तस्यां च विशारदःनिपुणः, तथा औत्पत्ति क्या स्वाभाविक्या-अदृष्टाश्रुताननुभूतविषयया स्वतः समुत्पन्नया, वैनयिक्या गुरुसमाराधनसमाप्तशास्त्रार्थ संजनितया कर्मजया कृषिवाणिज्यादिकर्मसंपा. तया, पारिणामिक्या-बय:परिणामजनिनया चेति चतुर्विधया चतुष्पकारया बुद्धथा उपपेतो-युक्तश्च आसीत् । तथा-स चित्र सारथिःप्रदेशिनो राज्ञों बहुषु कार्येषु-कर्तव्येषु प्रयोजनेविति यावत्, कारणेषु कार्यजातसम्पादक हेतुषु कुटुम्बेषु-कुटुम्बविषये मन्त्रेषु कर्तव्यनिश्चयार्थ गुप्तविचारेषु गुह्येषु लज या गोपनीयेषु व्यवहारेषु रहस्येषु हसि-एकान्ते भवा रहस्यास्तेषु प्रच्छन्नव्यवहारेष्विति यावत्, निश्चयेषु-पूर्ण निर्णयेषु, व्यवहारेषु व्यवहारप्रष्टव्येषु, यद्वा-बान्धवादि समाचरितलोकविपरीतादि क्रिया प्रायश्चित्तेषु च आमच्छनीयःआईषत् सकृत् प्रच्छनीय प्रष्टव्यः, परिप्रच्छनीयः-परि-सर्वतोभावेन असकृत प्रच्छनीयः प्रष्टव्यः, तथा स चित्रसारथिः-मेधिः यथा मेधिमाश्रित्य गोमण्डल भ्रमति, तथैव तमाश्रित्य सकल मन्त्रिमण्डल मन्त्रकायेषु प्रवर्तते, अतः स मेधिः, तथा-प्रमाणम्-प्रत्यक्षादिप्रमाणबद्धेयोपादेयप्रवृत्तिनिवृत्तिरूपतया संश. यराहित्येन पदार्थ परिच्छेदकः, आधार आधारवत्सर्वेषामाश्रयमूतः, आलम्बन रजस्तम्भादिवद् विपत्कूपेपतन्जनोद्धारक तयाऽवलम्बनम् । ननुआधारालम्बनयोः को भेदः ? इति चेत्, यमधिष्ठाय जन उन्नति गच्छति स्वरूपावस्थो वा भवति स आधारः, यदवलम्बनेनच विपदो विनिवत्त ते
શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨