SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. ९९ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् ११ मनोरम नन्दनवनप्रकाशनन्दनवनसदृश, शुभसुरभिशीतलया शुभा=मुखा बहुत्वेन शुभा सुरभिः मनोज्ञा शीतला-शीतस्पर्श युक्ता, पदत्रयस्य कर्मधारयः तथाभूतया छायया सर्वत एव सर्व प्रदेशावच्छेदेनैव समनुबद्धां-युक्तां पासा. दीयां यावत् प्रतिरूपां चासीत् । तत्र खलु श्वेतविकायां नगर्यो प्रदेशी नाम राजा आसीत् । स प्रदेशी राजा महाहिमवन्महामलयमन्दरमहेन्द्रसारो यावद् विहरति । प्रदेशिराजस्य सकलं वर्णनमोपपातिकसूत्रोक्तकूणिकराजवद् बोध्यम् । स प्रदेशी राजा तु-अधार्मिकः-धर्मेण चरति धार्मिकः, न धार्मिकोऽधार्मिक:-अधर्माचारी, अधार्मिकस्तु सामान्यधर्माचरणेनापि भवति, अत आह-अधर्मिष्ठ इति । अधर्मिष्ठः सातिशयाधर्माचरणशीलः, अधर्मख्यातिः-अधर्मेण ख्यातिर्यस्य स तथा अधर्मद्वारैव जगति प्रसिद्धिं गतः, अधर्मानुगः-अधर्मम् अनुगच्छतीति-अधर्मानुगः-अधर्मानु. यायी, अधमलोकी-अधर्म मेव प्रलोकते=निरन्तर विचारयति यः सः-अधर्मविषयक विचारपरायणः, अधर्म प्रजनन:-अधर्म मेव प्रकर्षेण जनयति उत्पादयति लोकेषु यः सः प्रजास्वपि अधर्म भावोत्पादक इत्यर्थः, तथा अधर्मशील समुदाचार:- अधर्म एव शील स्वभावः समुदाचारः अनुष्ठान च यस्य स तथा अधर्ममयस्वभाययुक्तः अधर्मानुष्ठानपरायणश्चेत्यर्थः, तथा-अधमें: णैव वृत्ति जीविका कल्पयन् कुर्वन्, तथा-जीवान् प्रति जहि-मारय छिन्धि%D विदारय भिन्धि-द्विधाकुरु' इत्यादि वाक्यः प्रवर्तक स्वाश्रितान् जनान् प्रवर्तः यिता, अतएव-लोहितपाणिः रक्तखरष्टितहस्तः, पाप: पापस्वरूपः-सर्वदा पापपरायणत्वात्, चण्डः चण्डस्वरूपः-तीव्रतरकोपावेशात् रौद्रः भयानका क्रूररू त्वात्, क्षुद्रः-तुच्छबुद्धित्वात् साहसिका सहसा कर्मकरणशील:-असमीक्षित कारित्वात, तथा-उत्कञ्चन-वचन-माया-निकृति-कूट-कपट-सातिसम्प्रयोग बहुल:-तत्र-उत्कञ्चनम् उत्कोचग्रहणम्, 'उत्कोच:'-'लाञ्च' इति भाषा: टीकार्थ-इसका, मूलार्थ - जैसा ही है-श्वेतविका नगरी का वर्णन औपपातिकसूत्र में वर्णित चंपानगरी जैसा ही जानना चाहियेयही बात यहां यावत्पद से प्रकट की गइ है तथा पदेशी राजा का भी वर्णन औपपातिकसूत्र में वर्णित हुए कूणिक राजा के जैसा ही समझना ॥ सू. ९९ ॥ ટીકાર્થ –મૂલાર્થ પ્રમાણે જ છે. શ્વેતવિકા નગરીનું વર્ણન ઓપપાતિક સૂત્રમાં વણિત ચંપાનગરી જેવું જ સમજવું જોઈએ. યાવત્ પદથી એજ વાત અહીં સ્પષ્ટ કરવામાં આવી છે. તેમજ પ્રદેશ રાજાનું વર્ણન પણ ઔપપાતિક સૂત્રમાં વર્ણિત ફૂણિક રાજા જેવું જ સમજવું જોઈએ. સૂ૦ ૯૯ શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy