________________
सुबोधिनी टीका सू. १५९ सूर्याभदेवस्य पूर्वभवजीवप्रदेशीराजवर्णनम् ३५९ इति वा खलवाटकम् इति वा पूर्व रमणीयं भूत्वा पश्चादरमणीयं भवतीति ! तत्र प्रदेशी पृच्छति-हे भदन्त ! कथं-केन प्रकारेण वनषण्डः पूर्व रमणीयो भूत्वा पश्चादरमणीयो भवति । एवं नाटयशालेञ्जवाट-खलवाटविषयेऽपि प्रश्नयोजना कर्तव्या। तत्र क्रमेण तेषां रमणीयत्वारमणीयत्वे प्रदर्शयितु केशी प्राह-'पएसी' इत्यादि-हे प्रदेशिन् ! यथा वनषण्डः पत्रितः-पत्रसम्पन्नः, पुष्पित:-पुष्पसम्पन्नः फलितः-फलसम्पन्नः, हरितः-हरितत्वसम्पन्नः हरितकराराज्यमानः-हरितवणे पत्रपल्लवादिभिरतिशयेन शोभमानः, अत एव श्रिया-शोभया, अतीव-अत्यन्तम् उपशोभमानः-शोभां प्राप्नुवन् यदा तिष्ठति-वर्तते, तदा-तस्मिन् काले च स बनषण्डो नो पत्रितः नो पुष्पितः नो फलितः नो हरितः नो हरितक ज्यमानः अत एव नो श्रियाऽतीवोपशोभमानो भवति, यदा च जीर्णः-जीर्णपत्र पल्लवादियुक्तः शन्नः-प्रपतितपत्रादिकः, अत्र शदा झडादेशः, परिशटितपाण्डुपत्रःविकृतपाण्डुवर्णपत्रयुक्तः शुष्कवृक्ष इव म्लायन्-म्लानतां गच्छन् सन तिष्ठते, तदा खलु वनषण्डो नो रमणीयो भवति १। प्रदेशी पृच्छति-हे भदन्त ! नाटयशाला कथं रमणीया भूत्वा चारमणीया भवति ? केशी प्राह-हे प्रदेशिन ! यदा खलु नाटयशालाऽपि गीयते-गानयुक्ता भवति वाद्यते-वाद्यवादनयुक्ता भवति नृत्यते-नृन्ययुक्ता भवति, हस्यते-हास्ययुक्ता भवति, रम्यते-क्रीडनयुक्ता भवति, तदा खलु सा रमणीया भवति, यदा खलु नो गीयते-यावत् नो वाद्यते ना नयते नो हस्यते नो रम्यते, तदा खलु सा अरमणीया भवति २ । __अथेक्षुवाटविषयकप्रश्ने केशी प्राह-हे प्रदेशिन ! यदा खलु इक्षुवाटम् इक्षुक्षेत्रे इक्षुः छिद्यते-द्विधा क्रियते, भिद्यते-विदार्य ते, पीडयते-यन्त्रेण रसो निःसार्यते, खाद्यते-गुडादिकम्, पीयते-रसः, दीयते-इक्ष्वादिकं, तदा खलु इक्षुवाट रमणीयं भवति। यदा खलु इक्षवाट नो छिद्यते यावत् नो पीडयते नो खाद्यते नो पीयते नो दीयते, तदा इक्षुवाटम् अरमणायं भवति । ३।।
टीकार्थ-स्पष्ट है, "झ." यहांपर शद् के स्थान में झड आदेश हुवा है. संस्कृत में इस की छाया "शन्नः" ऐसी होती हैं। केशाने-इस सूत्र द्वारा प्रदेशी राजा को पहिले रमणीय होकर अरमणीय बन जाने वाले वनषण्ड आदिचार को दृष्टांतरूप में रखकर यह समझाया है कि-तुम ऐसे मत बन जाना. ॥१५९॥
सार्थ-२५ट छ. 'झेड' ही 'शदना स्थाने 'झड' माहेश थयो छे. संस्कृत માં એની છાયા “શન” હોય છે. કેશીએ આ સૂત્ર વડે પ્રદેશી રાજાને પહેલાં રમણીય થઈને પછી અરમણીય થઈ જનારા વનખંડ વગેરેને દૃષ્ટાંત રૂપમાં આપીને આ સમજાવવામાં આવ્યુ છે કે તમે એવા થશો નહિ. સૂ. ૧૫લા
શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨