SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ३६० राजप्रश्नीयसूत्रे अथ खलवाटविषयप्रश्ने केशी पाह-हे प्रदेशिन् ! यदा खलु खलपाटं सस्यकणमर्दनपरिष्करणस्थानम् तत्र धान्यम्-अवक्षिप्यते-पुनीक्रियते, मद्यते-बलीवर्दादिभिः, उड्डारयते-पवने पूयते, खाद्यते, दीयते तदा खलु खलवाट रमणीयं भवति । यदा खलु नो अवक्षिप्यते यावत् नो मद्यते नो उड्डाय्यते, नो खाद्यते नो दीयते तदा अरमणीयं भवति ।। तत् हे प्रदेशिन ! तेन-वनषण्डादि दृष्टान्तरूपेण अर्थेन एवम् उच्यते-कथ्यते यत् हे प्रदेशिन ! त्वं पूर्व रमणीयो भृत्वा पश्चादरमणीयो मा भवेः, यथा वनषण्ड इति वा यावत्-नाट शालेति वा इक्षुवाटम् इति वा खलवाटम् इति वा ॥स्. १५९॥ मूलम--तए णं पएसी केसि कुमारसमणं एवं वयासी-णो खलु भंते ! अहं पुटिव रमाणज्जे भवित्ता पच्छा अरमणीज्जे भविस्सामि जहा वणसंडेइ वा जाव खलवाडेइ वा, अहं सेयविया नयरीपमुक्खाइं सत्त गामसहस्साई चत्तारि भागे करिस्सामि, एगं भागं बलवाहणस्स दलइस्सामि, एगं भागं कुटागारे छभिस्सामि, एगं भागं अंतेउरस्स दलइस्सामि, एगेणं भागेणं महइमहालयं कूडागारसालं करिस्सामि, तत्थ णं बहुहिं पुरिसेहिं दिन्नभइभत्तवेयणेहिं विउलं असणं पाणं खाइमं उवक्खडावेत्ता बहूणं समणमाहणभिक्खुयाणं पंथियवहियाणं परिभाएमाणे बहूहिं सीलव्वयगुणव्वयवेरमणध्वयपच्चक्खाणपोसहोववासेहिं अप्पाणं भावेमाणे विहस्स्सिामित्ति कटु जामेव दिसं पाउन्भूए तामेव दिसं पडिगए। ॥ सू० १६० ॥ ___ छाया-ततः खलु प्रदेशी केशिनं कुमारश्रमणम् एवमवादीत-नो खलु भदन्त ! अहं पूर्व रमणीयो भूत्वा पश्चादरमणीयो भविष्यामि, यथा वनषण्ड इति वा यावत् खलवाटमिति वा, अहं खलु श्वेतविकानगरी प्रमुखानि सप्त ग्रामसहस्राणि चतुरो भागान् करिष्यामि, एकं भागं बलवाहनस्य दास्यामि, एकं भागं कोष्ठागारे क्षेप्स्या म, एकं भागमन्तःपुराय दास्यामि, एकेन भागेन महाऽतिमहालयां कूटाऽऽकारशालां करिष्यामि, तत्र खलु बहुभिः पुरुषैः दत्तभृतिभक्त શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy