________________
राजप्रश्नीयसूत्रे ते यथानामकाः अनिर्दिष्टनामानः केचित पुरुषाः वनार्थिन:-वनमेवार्थोऽस्त्येषामिति वनार्थिन:-बनयोजनयुत्ता: वनोपजीविनः वनेन वन्यकाष्ठादिना उपजीविनः जीवननिर्वाहकारिणः काष्ठहारका इत्यर्थः, बनगवेषणया-चनजिज्ञा सया ज्योति:-अग्नि च ज्योतिर्भाजनम्-अग्निपात्र च गृहीत्वा काष्टानाम्इन्धनानाम् स्थानभूताम् अटवीम् अनुपविष्टाः, ततः-तदनन्तरम् ते पुरुषाः तस्याः अग्रामिकाया:-जनवसतिरहितायाः, अटव्याः किञ्चिद्देश-स्वल्पदेशम् अनुप्राप्ता:-क्रमेण गताः सन्तः एक पुरुषम् एवमवादिषुः-हे देवानुप्रिय ! वय काष्ठानामटवीं पविशामः, इतः खलु व ज्योतिर्भाजनात्-अग्निपात्रात् ज्योतिः अग्नि गृहीत्वा अस्माकमशनं साधये:-निष्पादयेः. अथ-भोजननिष्पादनसमये ज्योतिर्भाजने तत्-पूर्व तो रक्षित ज्योतिः विध्यायेत्-- शाम्येत् तदा इतः-एतस्मात् काष्ठात् खलु त्वं ज्योति:-अग्नि गृहीत्वा अस्माकमशन साधयेः इति कृत्वा-इत्याज्ञाप्य ते काष्ठहारकाः काष्ठाना मटचीमनुप्रविष्टाः, ततः तेषां गमनानन्तर खलु स पुरुषः ततः-मुहूर्तान्तरात्-किञ्चित्कालोनन्तरम् तेषां-वन प्रविष्टानां पुरुषाणाम् अशन साधयामीति कृत्वा-इत्यभिप्रेत्य यत्र व-यम्मिन्नेव स्थाने ज्योतिर्भाजनमासीत् तत्रव-तस्मिन्नेव स्थाने उपागच्छति, परन्तु ज्योतिर्भाजने-अग्निपात् ज्योतिःअग्निम् विध्यातमेव-प्रशान्तमेव पश्यति, ततः खलु सः-अशननिष्पादनार्थी पुरुषः यत्रैव तत् काष्ठ तत्रैव उपागच्छति. उपागत्य तत् काष्ठं सर्वतः समन्तात् समभिलोकते नो चैव-नैव खलु तत्-काष्ठे ज्योति:-वहिं पश्यति, ततः तदनन्तरम् स पुरुषः परिकर कटिन्धनं बध्नाति परशु-कुठार गृह्णाति तत् काष्ठं द्विधा स्फाटित-विदारित करोति-सर्वतः समन्तात स्मभिलोकते नो चैव खलु तत-काष्ठे ज्योतिः-वहिं पश्यति, एवम्-अनेन प्रकारेण यावत्-- यावत्पदेन 'त्रिधा स्फाटित चतुर्धा स्फाटितम्' इत्येषां पदानां सङ्ग्रहो बोध्यः, सख्येयधा-संख्यातखण्ड' स्फाटित करोति कृत्वा सर्वतः समन्तात् समभिलोकते, नो चैव तत् ज्योतिः पश्यति, ततः तदनन्तरम् खलु स पुरुषः तस्मिन्-कृतकुठारमहारे काष्ठे द्विधा स्फटिते यावत् संख्येयधासंख्यातखण्डशः स्फाटिते वा ज्योतिः अपश्यन भान्त:-श्रम माप्तः, तान्तः -क्लान्तः, परितान्तः-विशेषतःक्लान्तः, निर्विणिः-खिन्नः सन् परशु-कुठारम् एकान्ते-रहसि एडति-देशीयोऽयमेडधातुर्मोचनार्थः, तेन 'मुञ्चति' इत्यर्थः. मुक्त्वा परिकर-कटिबन्धन मुश्चति, मुक्तवा एवमवादीत-अहो!! -
શ્રી રાજપ્રશ્રીય સૂત્રઃ ૦૨