________________
६२४
___ राजप्रश्नीयसूत्रे कारेण-इत्येवंविधेन-चतुर्विधेन=चतुष्प्रकारेण अलङ्कारेण अलकृतविभूषितः= अतिभूषितः सन् प्रतिपूर्णालङ्कारः परिधृतसकलालङ्कारो भूत्वा सिंहासनात् अभ्युत्तिष्ठति अभ्युत्थितो भवति, अभ्युत्थिाय अलङ्कारसभायाः पौरस्त्येन =पूर्वदिकस्थितेन द्वारेण प्रतिनिष्कामति-बहिर्याति, प्रतिनिष्क्रम्य यत्रैव व्यवसायसभा तत्त्वादिनिश्वायिका सभा तत्रैव उपागच्छति, उपागत्य व्यवसायसभाम् अनुप्रदक्षिणीकुर्वन् अनुप्रदक्षिणीकुर्वन् पौरस्त्येन द्वारेण ताम् अनुप्रविशति अनुप्रविश्य यत्रैव सिंहासनं यावत्-यावत्पदेन-"तत्रैव उपागच्छति, उपागत्य सिंहासनवरगतः पौरस्त्याभिमुख" इति संगृह्यते, एतादृशःसन् सन्निपण्णः= समुपविष्ट ! ततः खलु तस्य सूर्याभस्य देवस्य सामानिक परिषदुपपन्नका देवा स्तन्सन्निधौ पुस्तकरत्नम् उपनयन्ति उपस्थापयन्ति । ततःखलु स सूर्याभो देवः पुस्तकरत्नं गृह्णाति, गृहीत्वा पुस्तकरत्नं मुञ्चति-उत्तमे पुस्तकरक्षणीये स्थाने स्थापयति, मुक्त्वा पुस्तकरत्नं विघाटयति-उद्घाटयति, विघाट्य-उद्घाटय पुस्तकरत्नं वाचयति-पठति, वाचयित्वा धार्मिकं धर्मसम्बन्धिकं व्यवसाय-तत्त्वनिश्चयं व्यवस्यति=करोति, व्यवसायं कृत्वा पुस्तकरत्ने प्रतिनिक्षिपतियथास्थानं स्थापयति, प्रतिनिक्षिप्य सिंहासनात् अभ्युत्तिष्ठति, अम्युत्थाय व्यवसायसभायाः व्यवसायसभाभवनात् पौरस्त्येन द्वारेण प्रतिनिष्क्रम्य यत्रैव नन्दापुष्करिणी तत्रैव उपागच्छति, उपागत्य नन्दापुष्करिणी पौरस्त्येन तोरणेन-नन्दापाः पुष्करिण्याः पूर्वदिस्थितेन बहिरेण नन्दापुष्करिणी समीपे समागत्य त्रिसोपानप्रतिरूपकेण नन्दापुष्करिणीं प्रत्यवरोहति-प्रवि शति, प्रत्यवरुह्य हस्तपादं-हस्तौ पादौ च प्रक्षालयति-जलेन परिशोधयति, प्रक्षाल्य आचान्तः-कृताचमनः चोक्षः-शुद्धः, परमशुचिभूतश्च सन् एकं महान्त-विशालश्वेत-श्वेतवर्ण रजतमयं विमलं सलिलपूर्ण-जलभृतं मत्तगजमुखाकृतिकुम्भसमानं-मत्तो-मद विह्वलो यो गजस्तस्य यन्युखं, तस्य आकृतिखि आकृतियस्प तादृशो यः कुम्भस्तत्समानं-तत्सदृशं भृङ्गारं-'ज्ञारी' इति भाषाप्रसिद्धं पात्रं प्रगृह्णाति, प्रगृह्य यानि तत्र-नन्दायां पुष्करिण्यां उत्पलानि यावद् शतसहस्रपत्राणि उत्पलादि शतपत्रसहस्रपत्रान्तानि कमलानि भवन्ति तानि गृह्णाति, गृहीत्वा नन्दायाः पुष्पकरिणीतः प्रत्युत्तरति-निस्सरति, प्रत्युतीर्य, यत्रैव सिद्धायतनं तत्रैव प्राधारयत्-निश्चयमकोद् गमनाय गन्तुमिति।स.९१।
मूलम्-तएणं तं सूरियाभं देवं चत्तारि य सामाणियसाहस्सीओ जाव सोलस आयरक्खदेवसाहस्सीओ अन्ने य बहवे सूरियाभ
શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧