________________
५५७
सुबोधिनी टीका. सू. ८१ उपणातसभा वर्णनम् महानेको हदः प्रज्ञप्तः। एकं योजनशतम् = एकशतयोजनप्रमाण आयामेन, पञ्चाशदू योजनानि = पश्चाशद्योजनप्रमाणो विष्कम्भेण दश योजनानि-दश योजनप्रमाणउद्वेधेन = गाम्भीर्येण, तथैव = नन्दापुष्करिणी वर्णितप्रकारक एव, अर्थात्-‘रजतमयकूलः अच्छो यावत्प्रतिरूपः' इत्येवं वर्णको बोध्यः । तथा-स खलु हद एकया पद्मवरवेदिकया एकेन बनषण्डेन च सर्वतः समन्तात् चतुदिगवच्छेदेन सम्परिक्षिप्तः = सम्परिवेष्टितः। पद्मवरवेदिकाया वनषण्डस्य च वर्णनं पूर्ववद् बोध्यम् । तस्य खलु हृदस्य त्रिदिशि = प्रत्येकदिशि दिक्त्रयावच्छेन त्रिसोपानप्रतिरूपकाणि-विशिष्टरूपयुक्तानि सोपानपतित्रयाणि प्रज्ञप्तानि । तथा तस्य खलु हृदस्य उत्तरपौरस्त्ये-ईशानकोणे अत्र खलु महत्येका अभिषेकसभा = अभिषेकार्था सभा प्रज्ञप्ता । अभिषेकसभायाः स्वरूपवर्णनादारभ्य गोमानासिकावर्णनावधिकं सर्वं वर्णन सुधर्मासभावद् बोध्यम् - अत एवाह'सुधर्भागमकेन=सुधर्मासभावर्णितप्रकारेण यावद् गोमानसिका' इति । तथागोमानसिकावर्णनानन्तरं मणिपीठिकावर्णनं, मणिपीठिकास्थित सपरिवार सिंहासनवर्णनं, तदतिरिक्तं च सर्व वर्णन 'दामानि तिष्ठन्ति' तिष्ठन्ति' इति पर्यन्तं सुधर्मासभावदेव बोध्यम् । अत एवाह- मणिपीठिका सिंहासनं सपरिवार यावद् दामानि तिष्ठन्ति'-इति। तत्र अभिषेकसभायां खलु सूर्याभस्य देवस्य सुबहु-प्रचुरम् अभिषेक्यं भाण्डं संनिक्षिप्त संस्थापितं तिष्ठति । तस्या अभिषेकसभाया उपरि अष्टाष्टसंख्यकानि मङ्गलकानि, तथैव पूर्वदेव ध्वजाः, छत्रातिच्छत्राणि च बोध्यानि । तस्याः खलु अभिषेक सभायाः उत्तरपौरस्त्ये अत्र खलु अलङ्कारिक सभा = अलङ्कारकरणसभा प्रज्ञप्ता । तस्या अलङ्कारिकसभायाः स्वरूप-द्वारत्रय मुखमण्डपप्रेक्षागृहमण्डपादि सपरिवारसिंहासनान्तवर्णनं सुधर्मासभावद् बोध्यम् । एतदेव सूचयितुमाह-' यथा सुधर्मा, मणिपीठिका अष्ट योजनानि सिंहासनं सपरिवारम्' इति । तत्र = अलङ्कारिकसभायां खलु सूर्याभस्य देवस्य सुबहु-प्रचुरम् अलङ्कारिक भाडं संनिक्षिप्तं तिष्ठति । शेष तथैव अलङ्कारिकसभाया उपरि अष्टाष्ट मङ्गलकानि, ध्वजाः, छत्रातिच्छत्राणि च पूर्ववद् बोध्यानीति । तस्याः खलु अलङ्कारिकसभाया उत्तर पौरस्त्ये अत्र खलु महत्येका व्यवसायसभा-व्यवसायः तत्वादिनिश्चयस्तदर्था सभा प्रज्ञप्ता । तस्याः सर्व वर्णनम् उपपात-सभावद् बोध्यम् । अमुमेवार्थ सूचयति- यथा उपपातसभा यावत् मणिपीठिका सिंहासनं सपरिवारम्, अष्टाष्ट मङ्गलकानि०' इति । तत्र = व्यवसायसभायां खलु सूर्याभस्य देवस्य अत्र खलु महदेकं पुस्तकरत्नं संनिक्षिप्तं तिष्ठति । तस्य-पुस्तकरत्नस्य खलु अयमेतद्रूपो
શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧