SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ५१८ राजप्रश्नीयसूत्रे तथा-तेषां खलु महेन्द्रध्वजानामुपरि अष्टाष्ट=अष्टाष्टसंख्यकानि स्वस्तिकादीनि मङ्गलकानि, ध्वजाः, छत्रातिच्छत्राणि च बोध्यानि। तथा-तेषां खलु महेन्द्रध्वजानामेकैकस्य पुरतः=अग्रे प्रत्येक प्रत्येकम् एकैका नन्दा=नन्दाभिधाना पुष्करिणी विज्ञेया । ताः खलु नन्दाः पुष्करिण्यः एक योजनशतम् एकशतयोजनप्रमाणा आयामेन-दैर्येण, पञ्चाशद् योजनानि-पञ्चाशद्योजनप्रमाणा विष्कम्भेण-विस्तारेण, दश योजनानि-दशयोजनप्रमाणाः उद्वेधेन गाम्भीर्येण, तथा-अच्छा यावद् वर्णकः यावत्पदेन-श्लक्ष्णाः रजतमयकूला इत्यादिरूपो वर्णकग्रन्थः पञ्चषष्टितमसत्रोक्तो बोध्यः, यावत्-तासु नन्दासु पुष्करिणीषु मध्ये अप्येककाः-कतिपयाः प्रकृत्या- स्वभावेन उदकरसेन-जलास्वादेन युक्ताः प्रज्ञप्ताः। तथा-तासु नन्दापुष्करिणीषु प्रत्येकं प्रत्येकम्-एकैका पुष्करिणी पद्मवरवेदिकापरिक्षिप्ताः-पद्मवरवेदिकाभिः परिवेष्टिता, पद्मवरवेदिकावर्णनमेकसप्ततितमस्त्रेऽवलोकनीयम् । तथा-प्रत्येक प्रत्येकं नन्दा पुष्करिणी वनषण्डपरिक्षिप्ता--वनसमूहपरिवेष्टिता च बोध्या। वनषण्डवर्णनं द्वापष्ठिसूत्रत आरभ्याष्ट पष्टितमसूत्रपर्यन्तं विलोकनीयम्, तथा-तासां खलु नन्दापुष्कदिरिणानाम् एकैकस्या नन्दापुष्करिण्याः त्रिदिशि-दिक्त्रये त्रिसोपानप्रतिरूपकाणि त्रयाणां सोपानानां समाहारस्त्रिसोपान-सोपानपतित्रयं, तस्य बहुत्वे त्रिसोपानानि, तान्येव प्रतिरूपकाणि-विशिष्टरूपयुक्तानीति त्रिसोपानप्रतिरूपकाणि विशिष्टरूप युक्तानि सोपानपतित्रयाणि, प्रज्ञप्तानि । त्रिसोपानप्रतिरूपकाणां वर्णकःवर्णनपदसमूहो द्वादशसूत्रोक्तयानविमानवर्णनगतपदसमूहवद् बोध्यः । तथा-तेषां त्रिसोपानप्रतिरूपकाणां पुरोवर्तीनि तोरणानि, तोरणोपरि विद्यमाना ध्वजाच्छत्रातिच्छत्राणि च पूर्ववद् बोध्यानीति ॥ सू० ७४ ॥ मानों इनके अग्रभाग गगनतल को ही उल्लङ्घन कर रहे हैं इत्यादि आगे का और सब कथन मूलार्थ के जैसा ही है। नंदा पुष्करिणियों के वर्णन में जो (अच्छाओ जाव वण्णओ) यह "जाव" पद आया है उससे यहां 'लक्ष्णाः रजतमयकूला:' इत्यादिरूप वर्णन लिया गया है यह पाठ ६५ वें सूत्र में आया हैं, पद्मवरवेदिका का वर्णन ७१ वें सूत्र में किया गया है वनषण्ड का वर्णन ६२ वें सूत्र से लेकर ६८ वें सूत्रतक किया नही पुशियाना वनमा २ 'अच्छाओ जाव वण्णओ' मा 'जाव' ५४ मावेलु छ. मेथी मही "लक्ष्णाः रजतमयकूलाः' मेरे ३५ वा पानी सड સમજવું જોઈએ. આ પાઠ ૬૫ મા સૂત્રમાં આવેલ છે. પદ્મવર વેદિકાનું વર્ણન ૭૧ મા સૂત્રમાં કરવામાં આવ્યું છે. વનખંડનું વર્ણન ૬૨ મા સૂત્રથી માંડીને ૬૮ શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy