________________
३५८
राजप्रश्नीयसूत्रे रक्ताऽपाङ्गाः-रक्तनेत्रान्तभागयुक्ताः, तथा-असितकेश्यः-कृष्णवर्णकेशयुक्ताः, एतदेवसविशेषमाह-मृदुविशदप्रशस्तलक्षणसंवेल्लिनाग्रशिरोजा:- मृदवः-कोमलाः विशदाः-निर्मलाः प्रशस्तलक्षणा:-परस्पर श्लेषणरूपशोभनलक्षणोपेताः संवेल्लिताग्राः-संवेष्टिताग्रभागकाः शिरोजा:-केशाः यासां तास्तथा, तथा-ईपदकिञ्चित् अशोकवरपादपसमुस्थिता:-अशोकवरपादपात्-अशोकाभिधानोत्तमवृक्षात् समुत्थिताः-समुद्गता उत्पन्ना इव, तथा-वामहस्तगृहीताग्रशाला:-वामहस्तधृताशोकवृक्षाग्रशाखाः, तथा ईषदर्धाक्षकटाक्षचेष्टितै-इषदर्ध-किश्चिदधैं अक्षि नेत्रं यत्र स ईषदर्धाक्षा तादृशाः कटाक्षाः तिर्यगक्षिप्रक्षेषाः, तद्रूपैः चेष्टितैः-चेष्टाभिः लसयन्त्य इव-देवानां मनांसि परिपीडयन्त्य इव चक्षुलों कनश्लेषैः-नेत्राव लोकनसंश्लेषणैः च अन्योऽन्य-परस्परम् खिद्यन्त्य इव-खेदं प्राप्नुयन्त्य इव पृथिवीपरिणामाः-पृथ्वीपरिणामस्वरूपाः शाश्वतभावं-नित्यताम् उपगताः-प्राप्ता विमानवन्नित्या इति भावः तथा-चन्द्राऽऽननाः-चन्द्रमुख्यः, तथा-चन्द्रविलासिन्य:-चन्द्रवद्विलासशीलाः, तथा-चन्द्राधसमल-लाटा:-अर्धविभक्तचन्द्रतुल्यललाटसम्पन्नाः, तथा-चन्द्रातोऽपि अधिकाह्लाद दर्शनवत्यः उल्का इव-तेजः पुआ इव उद्द्योतमानाः-प्रकाशमानाः, तथा-विद्युद्धनमरीचिगयदीप्यमानतेजोऽधिकतरसन्निकाशाः-विद्युतः-विद्युत्सम्बन्धिन्या याः धनाःबहुलतराः-मरीचयः किरणसमूहास्तेभ्यः, तथा-सूर्यस्य दीप्यमानं स्फुरत् यत्तेजश्चेत्युभयस्माद् अधिकतरः विशिष्टतरः सन्निकाशः प्रकाशो यासां तास्तथा, तथा-शङ्गारागारचारुवेषाः-शङ्गारस्यागारं-गृह-मिव चारु:-सुन्दरो वेषो यासां तास्तथा तथा -प्रासादीयाः, यावत्-यावत्पदेन-दर्शनीयाः अभिरूपाः, प्रतिरूपाः' इतिपदार्ना सग्रहो बोध्यः एषां व्याख्या गता । एतादृश्यः शालभलिकास्तिष्ठन्ति-सन्तीत्यर्थः ॥ सू० ५६ ॥ ___ मूलम् –तेसि गं दारणं उभओ पासे दुहओ णिसीहियाए सोलस सोलस जालकडगपरिवाडीओ पण्णत्तां, तेणं जालकडगा सव्वरयणामया अच्छा जाव पडिरूवा ।
तेसि णं दाराणं उभओ पासे दुहओ निसोहियाए सोलस-सोलस घंटापरिवाडोओ पण्णत्ता, तासि णं घंटाणं इमेयारूवे वण्णावासे पण्णत्ते, तं जहा-जंबूणयामईओ घंटाओ,
શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧