________________
अर्थबोधिनी टीका वर्ग ३ धन्यनामाणगार शरीर वर्णनम्
१०९ मूलम्-धण्णे णं अणगारे णं सुक्केणं भुक्खेणं पायजंघोरुणा, विगयतडिकरालेणं कडिकडाहेणं, पिटुमणुस्सिएणं उदरभायणेणं, जोइज्जमाणेहिं पांसुलिकडएहिं, अक्खसुत्तमाला विव गणिज्जमाणेहि पिटुकरंडगसंधीहि, गंगातरंगभूएणं उरकडगदेसभाएणं, सुक्कसप्पसमाणाहिं बाहाहि, सिढिलकडाली विव लंबतेहि य अग्गहत्थेहि, कंपणवाइओ विव वेवमाणीए सीसघडीए, पम्मानवदणकमले, उब्भडघडामुहे, उब्बुड्डनयणकोसे, जीवंजीवेण गच्छइ, जीवंजीवेण चिटइ, भासं भासित्ता गिलाइ, भासं भासमाणे गिलाइ, भासं भासिस्सामित्ति मिलाइ । से जहानामए-इंगालसगडिआइ वा, जहा खंदओ तहा जाव हुतासणे इव भासरासिपलिच्छपणे तवेणं तेएणं तवतेयसिरीए उवसो. भेमाणे उवसोभेमाणे चिटइ॥ सू० ३८ ॥
छाया-धन्यः खल्लु अनगारः शुष्केण बुभुक्षेण पादजङ्घोरुणा, विकृततटीकरालेन कटिकटाहेन, पृष्टमनुश्रितेन उदरभाजनेन, दृश्यमानैः पांचलिकटकैः, अक्षसूत्रमालाभिरिव गण्यमानः पृष्ठकरण्डकसन्धिभिः, गङ्गातरङ्गभूतेन उर:कटकदेशभागेन, शुष्कसर्पसमानाभ्यां बाहुभ्यां, शिथिलकटालिकाभ्यामिव लम्बमानाभ्यां चाग्रहस्ताभ्यां, कम्पनवातिके इव वेपमानया शीर्षघटया, अम्लानवदन कमलः, उद्भटघटमुखः उदब्रूडितनयनकोशो जीवजीवेन गच्छति, जीवजीवेन तिष्ठति भाषां भाषित्वा ग्लायति भाषां भाषमाणो ग्लायति, भाषां भाषिष्ये' इति ग्लायति । तदयथानामकम्-अङ्गारशकटिकेती वा, यथा स्कन्दकस्तथा यावत् हुताशन इव भश्मराशि प्रतिच्छन्नतपसा तेजसा तपस्तेजःश्रिया उपशोभमान: २ तिष्ठति ॥ सू०३८॥
टीका-'धन्नेणं अणगारेणं' इत्यत्र 'ण' इति पदद्ववं वाक्यालङ्कारार्थकम् । धन्योनामाऽनगारस्तीव्रतरतपश्चरणात् शुष्कण मांसशोणितरहितेन, बुमुक्षेण= बुभुक्षायोगाद्दुर्बलेन पादजङ्घोरुणाचरणाघनत्रयेणोपलक्षितो भवति । तस्य चरणौ, जङ्घ, अरू च, एतान्यङ्गानि तीव्रतपासमाराधनेन मांसशोणितरहितान्यतिदुर्बलानि संजातानीत्यर्थः । तथा विकृततटीकरालेण, विकृतं-विरूपं तत् तटयां-पाधै करालम्-उन्नतं तेन, कटिकटाहेन, कटाह इ-कच्छपपृष्टमिव,
શ્રી અનુત્તરોપપાતિક સૂત્ર