________________
१९०
अन्तकृतदशाङ्गसूत्रे जेणेव सुदंसणे समणोवासए तेणेव पहारेत्थ गमणाए ॥ सू० १२ ॥
॥ टीका ॥ 'तए णं' इत्यादि । 'तए णं तं सुदंसणं सेट्टि' ततः खलु तं सुदर्शन श्रेष्ठिनम् 'अम्मापियरो' अम्बापितरौ 'जाहे नो संचाएंति' यदा नो शक्नुतो 'बहूहिं आघणवाहि' बहुभिराख्यापनाभिः सामान्यतः कथनैः, 'जाव' यावत्-यावत्पदेन 'पण्णवणाहिं परूवणाहिं आघवित्तए पण्णवित्तए' इति सङ्ग्रहः, 'पण्णवणाहिं' प्रज्ञापनाभिः विशेषतः कथनैः, 'परूवणाहिं' प्ररूपणाभिः युक्तिप्रयुक्तिरूपाभिः, 'आघवित्तए' आख्यापयितुं सामान्यतया बोधयितुं, 'पण्णवित्तए' प्रज्ञापयितुं विशेषतो बोधयितुं, 'परूवित्तए' प्ररूपयितुं युक्तिप्रयुक्तिभिः प्रतिबोधयितुम् । यदाऽनेकपकाराभिर्युक्तिप्रयुक्तिभिस्तं 'गृहस्थित एव वन्दस्व' इति स्वीकारयितुं न शक्नुतः स्मेति भावः । 'ताहे' तदा पुत्रस्य परमोत्कृष्टभगवदर्शनश्रद्धां विज्ञाय 'अकामया चेव' अकामेनैव= इच्छां विनैव 'सुदंसणं सेटुिं' सुदर्शनं श्रेष्ठिनम् ‘एवं वयासी' एवमवदताम्-'अहामुहं देवाणुप्पिया!' यथासुखं देवानुप्रिय ! हे देवानुपिय ! यथा तव सुखं भवेत्तथा कुरुष्व । भद्रं भवतु तव । 'तए णं से सुदंसणे सेट्ठी अम्मापिईहिं अब्भणुण्णाए समाणे' ततः खलु स सुदर्शनः श्रेष्ठी अम्बापितृभ्यामभ्यनुज्ञातः सन् 'हाए सुद्धप्पावेसाइं जाव सरीरे' स्नातः शुद्धमावेश्यानि यावच्छरीरः पवित्राणि वस्त्राणि परिदधानः सर्वालङ्कारविभूषितशरीरश्च, 'सयाओ गिहाओ पडिनिक्खमइ' स्व
उसके बाद सुदर्शन सेठ को मातापिता जब अनेक प्रकार की युक्तियों से नहीं समझा सके तो उन्होंने अनिच्छापूर्वक उनको आज्ञा दी-हे देवानुप्रिय ! जिस प्रकार तुम्हें सुख हो उसी प्रकार करो। इसके बाद सुदर्शन सेठ मातापिता से आज्ञा प्राप्त करके शुद्ध वस्त्र धारण किये, एवं अलंकारों से अलंकृत हो भगवान के दर्शनार्थ अपने घरसे निकले और पैदल ही राजगृह नगर के बीचो
ત્યાર પછી સુદર્શન શેઠને માતાપિતા જ્યારે અનેક પ્રકારની યુકિતઓથી સમજાવી ન શક્યા ત્યારે તેમણે અનિચ્છાપૂર્વક તેને આજ્ઞા આપી – હે દેવાનુપ્રિય! જેમ તમને સુખ થાય તેમ કરો. ત્યાર પછી સુદર્શન શેઠ માતાપિતાની આજ્ઞા મેળવી શુદ્ધ વસ્ત્ર પહેરી, અલંકારોથી વિભૂષિત થઈ ભગવાનનાં દર્શનાર્થે પિતાને ઘેરથી નીકળ્યા અને પગે ચાલીને રાજગૃહ નગરની વચ્ચે વચ્ચે થઈને મુદગરપાણિ યક્ષના યક્ષાયતનની
શ્રી અન્નકૃત દશાંગ સૂત્ર