________________
॥ श्री वीतरागाय नमः ॥
जैनाचार्य-जैनधर्मदिवाकर-पूज्य-श्रीघासीलाल-तिविरचितयाअगारधर्मसञ्जीवन्याख्यया व्याख्यया समलङ्कृतं
श्री उपासकदशाङसत्रम्
॥ मङ्गलाचरणम् ॥ श्रीसिद्धराजं स्थिरसिद्धिराज्य
प्रदं गतं सिद्धिगतिं विशुद्धम् । निरञ्जनं शाश्वतसौधमध्ये,
विराजमानं सततं नमामि ॥१॥ नम्रीभूतपुरन्दरादिमुकुटभ्राजन्मणिच्छायया,
चित्रानन्दकरी सदा भगवतो यस्याडिलक्ष्मीः परा। सद्विज्ञाननिरन्तसिन्धुलहरीमग्नाः स्वकर्मक्षयं, कृत्वाऽनन्तसुखस्य धाम भविनः प्रापुः श्रये तं जिनम् ॥२॥
संसारसिन्धुसन्तापावर्त्तसंपतितान् जनान् । त्राता योऽनुपमस्तस्मै वीराय महते नमः ॥३॥ श्रीसुधर्मा महावीर,-लब्धरत्नोज्ज्वलो गणी । निबबन्ध तदुक्तार्थ, नमस्तस्मै दयालवे ॥४॥ अर्थतत्करुणालब्ध,-विवेकामृतबिन्दुना । उपासकदशाव्याख्या, घासीलालेन तन्यते ॥५॥
इह खलु भगवतीर्थङ्करोपदिष्टमर्थ रूपमागममुपादाय गणधराः सूत्ररूपेण जग्रन्थुः । उक्तञ्च
"अत्थं भासह अरिहा, सुत्तं गंथंति गणहरा णिउणा" इत्यादि।
ઉપાસક દશાંગ સૂત્ર