SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१५ उ.७ सु०२ द्वितीय' वेदद्वार निरूपणम् २७१ जिनकल्पो भवेत् स्थविरकल्पो भवेत् कल्पातीतो भवेत् ? गौतम ! जिनकल्पो वा भवेत् यथा कषायकुशीलस्तथैव निरवशेषम् । छेदोपस्थापनीयः परिहारविशुद्धिकत्र यथा बहुशः, शेषा यथा निर्ग्रन्थः ४ । सामायिकसंयतः खलु भदन्त ! किं पुलाको भवेत् बकुशो यावत् स्नातको भवेत् गौतम ! पुलाको वा भवेत् बकुशो यावत् कषायकुशीलो वा भवेत् नो निर्ग्रन्थो भवेत् नो स्नातको भवेत् एवं छेदोपस्थापनिकोsपि । परिहारविशुद्धिकसंयतः खलु भदन्त ! पृच्छा गौतम ! नो पुलाको नो बकुशो नो प्रतिसेवनाकुशीलो भवेत् कषायकुशीलो भवेत् नो नियन्थो भवेत् नो स्नातको भवेत् एवं सूक्ष्मपरायोऽपि । यथाख्यातसंयतः पृच्छा गौतम ! नो पुलाको भवेत् यावत् नो कषायकुशीलो भवेत् निर्ग्रन्थो वा भवेत् स्नातको वा भवेत् ५ । सामायिकसंयतः खलु भदन्त ! किं प्रतिसेवको भवेत् अपतिसेवको भवेत ? गौतम ! प्रतिसेवको वा भवेत् अमति सेवको वा भवेत् । यदि प्रतिसेवको भवेत् किं मूलगुणप्रतिसेवको भवेत् शेषं यथा पुलाकस्य । यथा सामायिक संयतः एवं छेदोपस्थापनिकोऽपि । परिहारविशुद्धिकसंयतः पृच्छा गौतम ! नो प्रतिसेवको भवेत् अप्रतिसेवको भवेत् एवं यावत् यथाख्यातसंयतः ६ । सामायिक संयतः खलु भदन्त ! कतिषु ज्ञानेषु भवेत् ! गौतम ! द्वयोर्वा त्रिषु चतुर्षु वा ज्ञानेषु भवेत् एवं यथा -कपायकुशीलस्य तथैव चत्वारि ज्ञानानि भजनया, एवं यावत् सुक्ष्म संपरायः । यथाख्यातसंयतस्य पञ्चज्ञानानि भजनया यथा ज्ञानोदेशके । सामायिकसंयतः खलु भदन्त ! कियत् श्रुतमधीयीत गौतम ! जघन्येन अष्टप्रवचनमातृः यथा कषायकुशीलः । एवं छेदोपस्थापनिकोऽपि । परिहारविशुद्धिकसंयतः पृच्छा, गौतम ! जघन्येन नवमस्य पूर्वस्य. तृतीयमाचारवस्तु उत्कर्षेणासंपूर्णानि दशपूणि अधीयीत सूक्ष्मसंपरायसंयतो यथा सामायिक संयतः । यथाख्यातसंयतः पृच्छा गौतम ! जघन्येन अष्टप्रवचनमातृः, उत्कर्षेण चतुर्दशपूर्वाण्यधीयीत श्रुतव्यतिरिक्तो वा भवेत् ७ । सामायिकसंयतः खलु मदन्त । किं तीर्थे भवेत् अतीर्थे भवेत् गौतम ! तीर्थे वा भवेत् अतीर्थे वा भवेत् यथा कषायकुशीलः । छेदोपस्थापनिकः परिहारविशुद्धिकश्च यथा पुलाकः, शेषा यथा सामायिक संयतः ८ । सामायिकसंयतः खलु भदन्त । किं स्वलिङ्गे भवेत अन्यलिङ्गे भवेत् गृहिलिङ्गे भवेत् ? यथापुत्राकः, एवं छेदोपस्थापनिकोऽपि । परिहारविशुद्धिकसंयतः खलु भदन्त ! पृच्छा गौतम ! द्रव्यलिङ्गमपि भावलिङ्ग मपि प्रतीस्य स्वलिने भवेत नो अन्यलिङ्गे भवेत् नो गृहिलिङ्गे भवेत् शेषा यथा सामायिकसंयतः ९ । सामायिकसंयतः खलु भदन्त । कतिषु शरीरेषु भवेत ? गौतम ! त्रिषु वा चतुर्षु पञ्चसु वा यथा कषायकु शीलः । एवं छेदोपस्था पनि कोऽपि, शेषा यथा पुलाकः १० | सामायिकसंयतः खलु भदन्त । किं कर्मभूमौ नो શ્રી ભગવતી સૂત્ર : ૧૬
SR No.006330
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages698
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy