________________
१६८
भगवतीजे ___ छाया-पुलाकः खलु भदन्त ! कि सयोगी भवेत् अयोगी भवेत् ? गौतम ! सयोगी भवेत् नो अयोगी भवेत् । यदि सयोगी भवेत् किं मनोयोगी भवेत् वचो. योगी भवेत् काययोगी भवेत् ? गौतम ! मनोयोगी वा भवेत् वचोयोगी वा अपेत् काययोगी वा भवेत् एवं यावन्निम्रन्थः । स्नातकः खलु पृच्छा, गौतम ! सयोगी वा भवेत् अयोगी वा भवेत् । यदि सयोगी भवेत् किं मनोयोगी भवेत शेषं यथा पुलाकस्य १६ । पुलाकः खलु भदन्त ! किं साकारोपयुक्तो भवेत् अना. कारोपयुक्तो भवेत् ? गौतम ! साकारोपयुक्तो वा भवेत् अनाकारोपयुक्तो पा भवेत् एवं यावत् स्नातकः १७। पुलाकः खलु भदन्त ! सकषायी भवेत् अपायी भवेत् ? गौतम ! सकषायी भवेत् नो अकषायी भवेत् । यदि सकषायी स खलु भदन्त ! कतिषु कषायेषु भवेत् ? क्रोधमानमायालोभेषु भवेत् । एवं बकुशोऽपि । एवं पतिसेवनाकुशीलोऽपि कषायकुशीलः खल भदन्त ! पृच्छा गौतम ! सकषायी भयेन नो अकषायी भवेत् । यदि सकषायी भवेत् स खलु भदन्त ! कतिषु कषा. येषु भवेत् गौतम ! चतुर्पु वा त्रिषु वा द्वयोर्वा एकस्मिन् वा भवेत् चतूर्षु भवन चतुषु संज्वलनक्रोधमानमायालो भेषु भवेत् त्रिषु भवन् संज्वलनमानमायालोमेषु भवेव द्वयोर्भवन संज्वलन मायालोभयो भवेत्, एकस्मिन् भवन् संज्वलनलोमे भवेन् । तिम्रन्थः खलु पृच्छा गौतम ! नो सकषायी भवेत् अकषायी भवेत् यदि अकषायी भवेत् किमुपशान्तकषायी भवेत् क्षीणकषायी भवेत् ? गौतम ! उपशान्तकषायी वा भवेत् क्षीणकषायी वा भवेत्, स्नातक एवमेव, नवरं नो उपशान्तकषायी भवेत् क्षीणकषायी भवेत् ।१८। पुलाकः खलु भदन्त ! किं सळेश्यो भवेत् अलेश्यो भवेत् ? गौतम ! सलेक्यो भवेत् नो अलेश्यो भवेत् । यदि सलेश्यो भवेत् स खलु भदन्त ! कतिषु लेश्यासु भवेत् ? गौतम ! तिमृषु विशुद्धलेश्याम भवेत् तद्यथा-तेजोलेश्यायां पद्मलेश्यायां शुक्ललेश्यायाम् । एवं बकुशस्यापि । एवं पतिसेवनाकुशीलस्यापि । कषायकुशीलः पृच्छा गौतम ! सलेश्यो भवेत् नो अलेश्यो भवेत् । यदि सलेश्यो भवेत् स खलु भदन्त ! कतिषु लेश्यासु भवेत् ! गौतम ? षट्सु लेश्यासु भवेत् तद्यथा-कृष्णलेश्यायां यावत् शुक्रलेश्यायाम् । निर्ग्रन्थः खलु भदन्त ! पृच्छा गौतम ! सलेश्यो भवेत् नो अलेश्यो भवेत् । यदि सलेम्यो भवेत् स खलु भदन्त ! कतिषु लेश्यासु भवेत् गौतम । एकस्यां शुक्कलेश्यायां भवेत् । स्नातकः पृच्छा गौतम ! सलेश्यो वा भवेत् अलेक्यो वा भवेत् । यदि स लेश्यो भवेत् स खलु भदन्त ! कतिषु लेश्यासु भवेत् ! गौतम! एकस्यां परमशुक्ळलेश्यायो भवेत् ॥९॥
શ્રી ભગવતી સૂત્ર : ૧૬