________________
प्रमेयचन्द्रिका टीका श०२४ उ.२१ सू०२ आनतादिदेवेभ्यः मनुष्येषूत्पत्तिः ३८५ जानीयात् ९ । यदि अनुत्तरोपपातिककल्यातीववैमानिकदेवेभ्य उत्पद्यन्ते कि विजयानुत्तरोपपातिककल्पातीतवैमानिकदेवेभ्य उत्पद्यन्ते यावत् सर्वार्थसिद्धानुत्तरोपपातिककलमातीतवैमानिकदेवेभ्य उत्पधन्ते ! गौतम ! विजयानुत्तरोपपानिककल्पातीतवैमानिकदेवेभ्योऽपि उत्पद्यन्ते यावत् सर्वार्थ सिद्धानुत्तरोपपातिककल्पातीतवैमानिकदेवेभ्योऽपि उत्पद्यन्ते। विजयवैजयन्तजयन्तापराजितदेवः खल भदन्न ! यो भव्यो मनुष्येषत्पत्तुं स खलु भदन्त ! कियत् कालस्थितिकेप्ल्पघते, एवं यथैव ग्रैवेयकदेवानां नवरमवगाहना जघन्येनाङ्गस्यासंख्येयभागम् , उत्कर्षेण एका रनिः। सम्यग्दृष्टिनों मिथ्यादृष्टिः। नो सम्यग्मिध्यादृष्टिः ज्ञानी, नो अज्ञानी, नियमात त्रिज्ञानी, तद्यथा-भाभिनिवोधिकज्ञानी, श्रुतज्ञानी, अवधिज्ञानी । स्थितिर्जघन्येन एकत्रिंशत्सागरोपमाणि, उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि, शेष तयैव, भवादेशेन द्वे भवग्रहणे, उत्कर्षेण चत्वारि भवग्रहणानि, कालादेशेन जघन्येन एकत्रिंशत्सागरोपमाणि वर्षपृथक्त्वाभ्यधिकानि, उत्कर्षेण षट् षष्टिः सागरोपमाणि द्वाभ्यां पूर्वकोटिभ्यामभ्यधिकानि, एतावन्तं काले यावत् कुर्यात् १ । एवं शेषा अपि अष्टगमका भणितव्याः । नवरं स्थिति पनुबंधं संवेधं च जानीयात्, शेषम् एवमेव ९। सर्वार्थसिद्धदेवः खलु भदन्त ! यो भयो मनुष्येवत्पत्तुम् स खलु भदन्त ! कियत्कालस्थिति के पुत्पद्येत सैव विजयादिदेववक्तव्यना भणितव्या, नवरं स्थिति. रजघन्यानुत्कर्षे ण त्रयस्त्रिंशत्सागरोपमाणि। एवमनुबन्धोऽपि । शेषं तदेव । भवादेशेन द्वे भवग्रहणे, कालादेशेन जघन्येन त्रयस्त्रिंशत्सागरोपमाणि वर्षपृथक्त्वाभ्यधिकानि, उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि पूर्वकोटथभ्यधिकानि, एतावन्तं यावकुर्यात १। स एव जघन्यकालस्थितिकेषु उत्पन्नः एषैव वक्तव्यता । नवरं कालादेशेन जघन्येन त्रयस्त्रिंशत्सागरोपमाणि वर्षपृथक्वाभ्यधिकानि, उत्कर्षेणापि प्रयस्त्रिंशसागरोपमाणि वर्षपृथक्त्वाभ्यधिकानि, एतावन्तं कालं यावत् कुर्यात । स एवोत्कर्ष कालस्थिति के त्पन्नः एषैव वक्तव्यता । नवरं कालादेशेन जघन्येन त्रयः स्त्रिंशत्सागरोपमाणि पूर्वकोटयम्यधिकानि, उत्कर्षेणापि त्रयस्त्रिंशत्सागरोपमाणि पूर्वकोटयभ्यधिकानि, एतावन्तं कालं यावत्कुर्यात् ३ । एते एव त्रयो गमकाः शेषा न भण्यन्ते । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥९०२१॥
चविंशतितमे शतके एकविंशततमोद्देशकः समाः॥२४॥
શ્રી ભગવતી સૂત્ર : ૧૫