________________
भगवतीसूत्रे उत्पद्यन्ते यावद्वैमानिकदेवेभ्योऽपि उत्पद्यन्ते । यदि भवनवासिदेवेभय उत्पधन्ते किममुरकुमारभवनवासिदेवेभ्य उत्पद्यन्ते यावत् स्तनितकुमारभवनवासिदेवेभ्य उत्पधन्ते गौतम! असुरकुमारभवनवासिदेवेभ्य उत्पद्यन्ते यावत् स्तनितकुमारभवनवासिदेवेभ्य उत्पधन्ते । असुरकुमारः खलु भदन्त! यो भव्यः पृथिवी कायिकेषरात्तम् । स खलु भदन्त ! कियत्कालस्थिति केत्पधेत ? गौतम ! जघन्येनान्तर्मुहूर्तस्थितिकेषु उत्कर्षेण द्वाविंशतिवर्षसहस्र स्थिति केपूत्पद्येत १ । ते खलु भदन्त ! जीवार पृच्छा, गौतम ! जघन्येन एको वा द्वौ वा प्रयो वा उत्कर्षेण संख्याता वा असंख्याता वा उत्पद्यन्ते २ । तेषां खलु भदन्त ! जीवानां शरीराणि किं संहननवन्ति प्रज्ञप्तानि ? गौतम ! षण्णा संहननानाम् असंहननवन्ति, यावत्परिणमन्ति ३ । तेषां खलु भदन्त ! जीवानां कियन्महती शरीरावगाहना १ गौतम ! द्विविधा प्रज्ञप्ता तद्यथा भवधारणीया उत्तरवैक्रयकोच, तत्र खलु या सा भाधारणीया सा जघन्येनाङ्गुलस्यासंख्येय भागम् उत्कर्षेण सप्त रत्नयः। तत्र खलु या सा उत्तरवैक्रयकी सा जघन्येन अंगु. लस्य संख्येयभागम् उत्कर्षेण योजनशतसहस्रम् ४ । तेषां खलु भदन्त ! जीवानां शरीराणि किं संस्थितानि प्रज्ञप्तानि ? गौतम । द्विविधानि प्रज्ञप्तानि तद्यथा भवधारणीयानि च उत्तरवैक्रियाणि च । तत्र खलु यानि भवधारणीयानि तानि समचतुरस्रसंस्थानसंस्थितानि प्रज्ञप्तानि । तत्र खलु यानि उत्तरवैक्रियाणि तानि नानासंस्थानसंस्थितानि प्रज्ञप्तानि ५ । लेश्याश्चतस्रः ६ । दृष्टि त्रिविधाऽपि ७। त्रीणि ज्ञानानि नियमतः, त्रीणि अज्ञानानि भजनया ८ । योगविविधोऽपि ९। उपयोगो द्विविधोऽपि १० । चतस्रः संज्ञाः ११ । चत्वारः कषायाः १२ । पञ्चेन्द्रियाणि १३ । पञ्च समुद्घाताः १४ । वेदना द्विविधा अपि १५ । स्त्रीवेदका अपि पुरुषवेदका अपि नो नपुंसकवेदकाः १६ । स्थितिजघन्येन दशवर्षसहस्राणि, उत्कर्षेण सातिरेकं सागरोपमम् १७ । अध्यवसाया असंख्येयाः प्रशस्ता अपि अयशस्ता अपि १८ । अनुबन्धो यथा स्थितिः १९। भवादेशेन द्वे भवग्रहणे कालादेशेन जघन्येन दशवर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि उत्कर्षेण सातिरेक सागरोपमम् द्वाविंशत्या वर्ष सहरभधिकम् एतावन्तं यावत्कुर्यात् २० । एवं नवाऽपि गमा नेतव्याः, नवरं मध्यमकेषु पश्चिम केषु त्रिषु गमकेषु असुरकुमाराणां स्थितिविशेषो ज्ञातव्यः, शेषा औधिकी एव लब्धिः कायसंवेधं च जानीयात् सर्वत्र द्वे भवग्रहणे यावत् नवमगम के कालादेशेन जघन्येन सातिरेक सागरोपमम् द्वाविंशत्या वर्षसहस्रैरभ्यधिकम् । उत्कर्षेणापि सातिरेक सागरोपमं द्वाविंशत्या वर्षसहस्रैरभ्यधिकम् एतावन्तं यावत्कुर्यात् ९ ॥मू०५॥
શ્રી ભગવતી સૂત્ર : ૧૫