________________
प्रमेयवद्रिका टीका श०२४ उ. १ सू०७ मनुष्येभ्यो नारकाणामुत्पत्यादिकम् ४९१ मनुष्येभ्प उत्पद्यन्ते, नो असंख्येयवर्षायुधःसंज्ञिमनुष्येभ्य उत्पद्यन्ते । यदि संख्येयवर्षायुष्कसंज्ञि मनुष्येभ्य उत्पद्यन्ते किं पर्याप्तसंख्येयवर्षायुष्कसंज्ञि मनुष्येभ्य उत्पद्यन्ते ? अपर्याप्तसंख्येयवर्षायुष्कसंझिमनुष्येभ्य उत्पद्यन्ते ? गौतम ! पर्याप्तसंख्येवर्षायुष्कसंज्ञिमनुष्येभ्य उत्पद्यन्ते, नो अपर्याप्तसंख्ये वर्षायुष्कसंझिमनुष्येभ्व उत्पद्यन्ते । पर्याप्त संख्ये वर्षायुष्कसंज्ञिमनुष्यः खलु भदन्त ! यो भन्यो नैरयिकेषु उत्पम् स खलु मदन्त | कतिपृथिवीषु उत्पद्यन्ते गौतम! सप्तसु पृथिवीपृत्पद्येत तद्यथा रत्नप्रभायाम् यावदधः सप्तम्याम् । पर्याप्तसंख्येय वर्षायुष्कसंज्ञिमनुष्यः खलु भदन्त ! यो भव्यो रत्नप्रभाया। पृथिव्याः नैरयिकेषूत्पत्तुम् स खलु भदन्त ! कियत्काल स्थिति के पृत्पद्येत ! गौतम ! जघन्येन दशवर्षसहस्रस्थितिकेषु उत्कर्षेण सागरोपमस्थिति के वृत्पद्येत । ते खलु भदन्त ! जीवा एकसमयेन कियन्त उत्पद्यन्ते ? गौतम ! जघन्येन एको वा द्वौ व त्रयो वा उत्कर्षेण संख्येया उत्पद्यन्ते । संहननानि षट् । शरीरावगाहना जब येन अंगुलपृथक्त्वम् उत्कर्षेण पञ्चधनुःशतानि एवं शेषं यथा संशिपञ्चेन्द्रियतिर्यग्योनिकानां यावद्भवा देश इति । नव चत्वारि ज्ञानानि त्रीणि अज्ञानानि भजनया । पट्समुद्घाताः केवलिवर्जिताः । स्थितिरनुबन्धश्च जघन्येन मासपृथक्त्वम् उत्कर्षेण पूर्वकोटिः, शेष तदेव काळादेशेन जघन्येन दशवर्षसहस्राणि मासपृथक्त्वाभ्यधिकानि उत्कर्षेण चत्वारि सागरोपमाणि चतसृभिः पूर्वकोटिभिरभ्यधिकानि एतावन्तं कालं यावत्कुर्यात् |१| स एव जघन्यकाल स्थितिकेषु उपपन्नः सैव वक्तव्यता | नवरं कालादेशेन जघन्येन दशवर्षसहस्राणि मासपृथकत्वाभ्यधिकानि, उत्कर्षेण चतस्रः पूर्वकोटयः चत्वारिंशता वर्षसहस्त्रैरभ्यधिकाः, एतावत्कालं यावत्कुर्यात् |२| स एवोत्कृष्टकालस्थितिकेषु उपपन्नः, एषैव वक्तव्यता, नवरं कालादेशेन जघन्येन सागरोपमं मासपृथक्त्वाभ्यधिकम् उत्कर्षेण चत्वारि सागरोपमाणि चतसृभिः पूर्वकोटिभिरभ्यधिकानि, एतावन्तं यावत्कुर्यात् | ३| स एव आत्मना जघन्यकालस्थितिको जातः, एषैत्र वक्तव्यता । नवरम् इमानि पञ्च नानात्वानि - शरीरावगाहना - जघन्येन अंगुलपृथक्त्वम् उत्कर्षेणाऽपि अङ्गुलपृथक्त्वम्, त्रीणि ज्ञानानि, त्रीणि अज्ञानानि भजनया । पश्चसमुद्घाता आदिमाः ।, स्थितिरनुबन्धश्व जघन्येन मासपृथक्त्वम् उत्कर्षेणापि मासपृथक्त्वम्, शेष ं तदेव यावद्भवादेश इति । कालादेशेन जघन्येन दशवर्षसहस्राणि मासपृथक्त्वाभ्यधिकनि, उत्कर्षेण चत्वारि सागरोपमाणि चतुर्भिर्मास पृथक्त्वैरभ्यधिकानि, एतावन्तं कालं यावत्कुर्यात् ४ । स एव जघन्यकालस्थिति केषु रपन्नः, एषैव वक्तव्यता चतुर्थगमसदृशी नेतव्या नवरं कालादेशेन जघन्येन दशवर्षसहस्राणि मासपृथक्स्वाभ्यधिकानि उत्कर्षेण चत्वारिंशद्वर्षसहस्राणि चतुर्भिर्मास पृथक्त्वैरभ्यधिकानि
શ્રી ભગવતી સૂત્ર : ૧૪
"