________________
प्रमेयचन्द्रिका टीका श०२४ उ०१ सू०२ नैरथिकाणां परिमाणादिद्वारनि० ३५३ जीवाना शरीराणि किं संस्थितानि प्रज्ञप्तानि ? गौतम! हुण्ड संस्थानसंस्थितानि मनजानि५ । तेषां खलु भदन्त ! जीवानां कतिलेश्याः प्रज्ञप्पाः ? गौतम ! तिस्रो लेश्या: प्रज्ञप्ताः तद्यथा कृष्णलेश्या नीललेल्या कापोतलेश्या । ते खल्ल भदन्त ! जीवाः किं सम्यग्दृष्टयो मिथ्यादृष्टयः, सम्यग्मिथ्यादृष्टयः ? गौतम ! नो सम्यग्दृष्टयो मिथ्यादृष्टयः नो सम्पमिथ्यादृष्टयः । ते खलु भदन्त ! जीवाः किं ज्ञानिनोऽज्ञानिनः ? गौतम!नो ज्ञानिनः अज्ञानिनं नियमावयज्ञानिनः, तद्यथा-मत्यज्ञानिनश्च श्रुताज्ञानिनश्च८ ते खलु भदन्त ! जीवाः कि मनोयोगिनो बचोयोगिनः काययोगिनः ? गौतम ! नो मनोयोगिनो वचोयोगिनोऽपि काययोगिनोऽपि९ । ते खलु भदन्त ! जीवाः किं साकारोपयुक्ता अनाकारोपयुक्ताः ? गौतम ! साकारोपयुक्ता अपि अनाकारोपयुक्ता अपि१० । तेषां स्लु भदन्त ! जीशनां कति संज्ञाः प्रहप्ता ? गौतम ! चतस्रः संज्ञाः पज्ञप्ताः तद्यथा-आहारसंज्ञा भएसंज्ञा मैथुनसंज्ञा परिग्रहसंज्ञा११। तेषां खलु भदन्त ! जीवानां कति कमाया प्रज्ञप्ता ? गौतम ! चत्वारः कषायाः प्रज्ञताः तद्यथा-क्रोधकषायो मानकषायो मायाकषायो लोभकषायः१२ । तेषां खलु भदन्त ! जीवानां कति इन्द्रियाणि प्रज्ञप्तानि ? गौतम ! पञ्चेन्द्रियाणि प्रज्ञप्तानि तद्यथा-श्रोत्रेन्द्रियं चक्षुरिन्द्रियं यावत् स्पर्शनेन्द्रियम् १३ । तेषांखलु भदन्त ! जीवानां कति समुद्घाताः प्रज्ञप्ताः ? गौतम ! त्रयः समुद्घाताः प्रज्ञप्ताः तद्यथा वेदनासमुद्घातः कषायसमुद्घातो मारणान्तिकसमुद्घात:१४ । ते खलु भदन्त ! जीवाः किं साता वेदका असाता वेदकाः ? गौतम ! सातावेदका अपि असातावेदका अपि१५। ते खलु भदन्त ! जीवाः किं स्त्रीवेदकाः पुरुषवेदकाः नपुंसकवेदकाः! गौतम ! नो स्त्रीवेदकाः नो पुरुषवेदकाः नपुंसकवेदकाः१६। तेषां खलु भदन्त ! जीवानां कियत्कालं स्थितिः प्रज्ञप्ताः ? गौतम !जघन्येन अन्तर्मुहूर्त्तम् उत्कर्षेण पूर्वकोटिः१७। तेषां खलु भदन्त ! जीवानां कियन्ति अध्यवसानानि प्रज्ञप्तानि ? गौतम! असंख्येयानि अध्यवसानानि प्रज्ञप्तानि । तानि खलु भदन्त ! किं प्रशस्तानि अप्रशस्तानि ? गौतम! प्रशस्तान्यपि अप्रशस्तान्यपि १८ । स सलु भदन्त ! पर्याप्तासंज्ञिपञ्चेन्द्रियतिर्यग्योनिक इति कालतः कियचिरं भवति ? गौतम ! जघन्येन अन्तर्मुहूर्त्तम् उत्कर्षेण पूर्वकोटिः१९। स खलु भदन्त ! पर्याप्तासंज्ञि पश्चेन्द्रियतियग्योनिकः, रत्नपभायां पृथिव्यां नैरयिका, पुनरपि पर्याप्तासंक्षिपञ्चेन्द्रियतिर्यग्योनिक इति कियत्काल सेवेत कियत्कालं गत्यागतीं कुर्यात् ? गौतम ! भवादेशेन द्वे भवग्रहणे, कालादेशेन जघन्येन दशवर्षसहस्राणि अन्तर्मुहूभ्यिधिकानि उत्कर्षेण पल्योपमस्यासंख्येयभागं पूर्वकोटयभ्यधिकम् एतावन्तं कालं सेवेत एतावत्कालं गत्यागतीं कुर्यात् २० ॥सू०२॥
भ० ४५
શ્રી ભગવતી સૂત્ર: ૧૪