________________
प्रमेयचन्द्रिका टीका श०१९ उ०३ सू०१ लेश्यावान् पृथ्वीकायिकादिजीवनि० २९३ ज्ञानिनः अज्ञानिना, गौतम ! नो ज्ञानिनः अज्ञानिनः नियमतो द्वे अज्ञाने तद्यथा मत्यज्ञानं च श्रुताज्ञानं च ४ । ते खलु भदन्त ! जीवाः किं मनोयोगिनो वचोयोगिनः काययोगिनः ? गौतम ! नो मनोयोगिनो नो वचोयोगिनः काययोगिनः ५। ते खलु भदन्त ! जीवाः किं साकारोपयुक्ता अनाकारोपयुक्ताः ? गौतम ! साकारोपयुक्ता अपि अनाकारोपयुक्ता अपि ६ । ते खलु भदन्त ! जीवाः किमाहारमाहरन्ति ? गौतम ! द्रव्यतः खलु अनन्तपदेशिकानि द्रव्याणि एवं यथा प्रज्ञापनायाः प्रथमे आहारोदेशके यावत् सर्वात्मतया आहारमाहरन्ति ते खलु भदन्त ! जीवा यमाहरन्ति तं चिन्वन्ति यं नो आहरन्ति तं नो चिन्वन्ति चीर्ण वा तत् अपद्रवति परिसर्पति वा ? हन्त गौतम ! ते खलु जीवायमाहरन्ति तं चिन्वन्ति यं नो यावत् परिसर्पति वा तेषां खलु भदन्त ! जीवानाम् एवं संज्ञा इति वा प्रज्ञा इति वा मन इति वा वच इति वा 'वयं खलु आहारमाहरामः' नायमर्थः समर्थः आहरन्ति पुनस्ते । तेषां खलु जीवानाम् एवं संज्ञा इति वा यावद् वच इति वा वयं खलु इष्टानिष्टान स्पर्शान् प्रतिसंवेदयामः ? नायमर्थः समर्थः मतिसंवेदयन्ति पुनस्ते ७ । ते खलु भदन्त ! जीवाः कि प्राणातिपाते उपाख्यायन्ते मृषावादे अदत्तादाने यावन्मिथ्यादर्शनशल्ये उपाख्यायन्ते ? गौतम ! प्राणातिपातेऽपि उपाख्यायन्ते यावत् मिथ्यादर्शनशल्येऽपि उपाख्यायन्ते, येषामपि खलु जीवानां ते जीवा एवमाख्यायन्ते तेषामपि खलु जीवानां किं नो विज्ञातं नानात्वम् ८ । ते खलु भदन्त ! जीवाः कुत उत्पद्यन्ते किं नैरयिकेभ्य उत्पद्यन्ते ? एवं यथा व्युत्क्रान्तौ पृथिवीकायिकानामुपपातः तथा भणि नव्यः ९। तेषां खलु भदन्त ! जीवानां कियत्काल स्थितिः प्रज्ञप्ता ? गौतम ! जघन्येन अन्तर्मुहर्तम् उत्कृष्टतो द्वाविंशतिवर्षसहस्राणि १०। तेषां खल भदन्त ! जीवानां कति समुद्घाताः प्रज्ञप्ताः गौतम ! त्रयः समुद्घाताः प्रज्ञप्ता: तद्यथा वेदनासमुदघातः कषायसमुद्घातो मारणान्तिकसमुदघातः । ते खलु भदन्त ! जीवाः मारणान्तिकसमुद्घातेन कि समवहता म्रियन्ते असमवहता नियन्ते गौतम ! समवहता अपि म्रियन्ते असमवहता अपि म्रियन्ते ११ । ते खलु भदन्त ! जीवाः अनन्तरमुद्रयं कुत्र गच्छन्ति कुत्रोत्पद्यन्ते, एवमुद्वर्तनाय व्युत्क्रान्तौ १२ । स्याद्भदन्त ! यावत् चत्वारः पश्चाप्कायिका एकतः साधारणशरीरं बध्नन्ति, एकतः साधारणशरीरं बद्ध्वा ततः पश्चात् आहरन्ति एवं यः पृथिवीकायिकानां गमः सः एव भणितव्यो यावदुद्वतन्ते नवरं स्थितिः सप्तवर्षसहस्राणि उत्कृष्टतः शेषं तदेव १३ । स्याद् भदन्त ! यावत् चत्वारः पञ्च तेन: कायिकाः० एवमेव नवरमुपपातः स्थितिरुद्वर्तना च यथा प्रज्ञापनायाम् शेषं तदेव १२ । वायुकायिकानामेवमेव नानात्वम् , नवरं चत्वारः समुद्घाताः १२ । स्याद
શ્રી ભગવતી સૂત્ર : ૧૩