SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१८ उ०१ सू०२ चरमाचरमत्वे जीवद्वारम् ५८७ रमः स्यादचरमः । एवं याद्वैमानिकः, सिद्धो यथा जीवः। जीवाः खल भदन्त ! पृच्छा, गौतम ! नो चरमा अचरमा नैरयिकाः चरमा अपि अचरमा अपि, एवं यावद्वैमानिकाः । सिद्धा यथा जीवाः ।१। आहारकः सर्वत्रैकत्वेन स्यात् चरमः स्यादचरमः पृथक्त्वेन चरमा अपि अचरमा अपि, अनाहारको जीवः सिद्धश्च एकत्वेनापि पृथक्त्वेनापि नो चरमोऽचरमः शेषस्थानेषु एकत्वपृथक्त्वेन यथा आहारकः ।२। भासिद्धिको जीवपदे एकत्वपृथक्त्वेन चरमो नो अचरमः शेषस्थानेषु यथा आहारकः । अभवसिद्धिका सर्वत्र एकत्वपृथक्त्वेन नो चरमोऽचरमः । नो भवसिद्धिक नो अभवसिद्धिको जीवः सिद्धश्च एकत्वपृथक्त्वेन यथा अभवसिद्धिकः ।३। संज्ञी यथा आहारकः एवम् असंज्ञी अपि, नो संज्ञी नो असंही जीवपदे सिद्धपदे चाचरमः, मनुष्यपदे चामः एकस्वपृथक्त्वेन ।४। सलेश्यो यावत् शुक्ललेश्यो यथा आहारकः नवरं यस्य या अस्ति, अलेश्यो यथा नो संक्षि नो असंज्ञी ।। सम्पष्टि यथा अनाहारकः, मिथ्यादृष्टियथाऽऽहारकः सम्यग्मिथ्यादृष्टिः एकेन्द्रियविकलेन्द्रियवर्न स्यात् चरमः स्यादचरमः, पृथक्त्वेन चरमा अपि अचरमा अपि ६। संयतो जीवो मनुष्यश्च यथा आहारकः, असंयतोऽपि तथैव संयतासंपतोऽपि तथैव नवरं यस्य यदस्ति नो संयत नो असंयत नो संयतासंयतः यथा नो भवसिद्धिक नो अभवसिद्धिकः ७। सकषायी यावल्लोभकषायी सर्वस्थानेषु यथा आहारकः, अपायी जीवपदे सिद्धपदे च नो चरमोऽचरमः, मनुष्यपदे च स्याचरमः स्यादचरमः ।८। ज्ञानी यथा सम्यग्दृष्टिः सर्वत्र, आभिनिबोधिकज्ञानी यावन्मनापर्यवज्ञानी यथा आहारकः नवरं यस्य यदस्ति, केवळ ज्ञानी यथा नो संज्ञि नो असंज्ञो, अज्ञानी यावद्विभङ्गज्ञानी यथा आहारकः ।। सयोगी यावत्काययोगी यथा आहारकः यस्य यो योगोऽस्ति, अयोगी यथा नो संज्ञि नो असंज्ञी ।१०। साकारोपयुक्तोऽनाकारोपयुक्तश्च यथा अनाहारका ।११। सवेदको यावन्नपुसकवेदको यथा आहारकः, अवेदको यथा अकषायी ।१२। सशरीरी यावत् कार्मणशरीरी यथा आहारका, नवरं यस्य यदस्ति, अशरीरी यथा नोमवसिद्धिक नोप्रभवसिद्धिकः ॥१३॥ पञ्चमिः पर्याप्तिभिः पञ्चभिरपर्याप्तिभिर्यथा आहारकः, सर्वत्र एकत्व पृथक्त्वेन दण्डका भणितव्याः।१४। इयं लक्षणगाथा--यो यं प्राप्स्यति पुनर्भावं स तेनाचरमो भवति । अत्यन्तवियोगो यस्य, येन भावेन स चरमः ॥१॥ तदेवं भदन्त ! तदेवं भदन्त ! इति यावद्विहरति ॥ २॥ अष्टादशशतके प्रथमोद्देशकः समाप्तः ॥ શ્રી ભગવતી સૂત્ર : ૧૨
SR No.006326
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 12 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy