SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टोका श० १५ उ० १ सू० २१ गोशालकगतिवर्णनम् ८१९ रेकाष्टवर्षजातकं ज्ञात्वा शोभने तिथिकरणदिवसनक्षत्रमुहूर्ते महता महता राज्याभिषेकेण अभिषेक्ष्यतः, स खलु तत्र राजा भविष्यति महाहिमवन्महावर्णको यावद् विहरिष्यति, ततः खलु तस्य महापदमस्य राज्ञः अन्यदा कदाचित् द्वौ देवौ महद्धिको यावत् महासौख्यौ सेनाकर्म करिष्यतः, तौ यथा-पूर्णभद्रश्च' मणिभद्रश्च । ततः खलु शतद्वारे नगरे बहवो राजेश्वर तलवर यावत् महासौख्याः सेनाकम यावत् सार्थवाहपभृतयः अन्योन्यं शब्दयन्ति, शब्दयित्वा एवं वदिष्यन्ति-यस्मात्-खलु देशानुप्रियाः ! अस्माकं महापद्मस्य राज्ञो द्वौ देवौ महर्द्धिको यावत् सेनाकर्म कुरुतः' तौ यथा-पूर्णभद्रश्व, मणिभद्रश्व, तद् भवतु खलु देवानुपियाः ! अस्माकं महापद्मश्य राज्ञो द्वितीयपपि नामधेयं देवसेन इति, ततः खलु तस्य महापद्मस्य राज्ञो द्वितीयपपि नामधेयं भविष्यति देवसेन इति, ततः खलु तस्य देवसे वनस्य राज्ञो अन्यदा कदाचित् श्वेतः शङ्खतळ विमलसन्निकाशः चतुर्दन्तो हस्तिरत्नं समुत्पत्स्यते । ततः खलु स देवसेनो राजा शङ्कतलविमलसन्निकाशम् चतुर्दन् हस्तिरत्नम् आरूढः सन् शतद्वारं नगरं मध्यमध्येन अभीक्ष्णम् अभीक्ष्णम् अतियास्यति, निर्यास्यति च । ततः खलु शतद्वारे नगरे बहवो राजेश्वर यावत् प्रभृतयोऽन्योन्यं शब्दयन्ति, शब्दयित्वा एवं वदिष्यन्ति-यस्मात् खलु देवानुपियाः ! अस्माकं देवसेनस्य राज्ञः *वेतः शङ्खतलसन्निकाशश्चतुर्दन्तो हस्तिरत्नं समुत्पन्नम् , तद्भवतु खलु देवानुपियाः अस्माकं देवसेनस्य राज्ञस्तृतीयमपि नामधेयं विमलवाहन इति' विमलवा. हन इति, ततः खलु तस्य देवसेनस्य राज्ञस्तृतीय मपि नामधेयं विमलवाहन इति । ततः खलु स विमल पाहनो राना अन्यदा कदापि श्रमणैः निर्ग्रन्यैः मिथ्यात्वं विपतिपत्स्यते, अप्येकान् आक्रोक्ष्यति, अप्येकान् अपहसिष्यति, अप्येकान् नि छो. टयिष्यति, अप्येकान् निर्मर्स यिष्यति, अप्येकान् भन्त्स्यति, अप्येकान निरो त्स्यति, अप्येकेगां छविच्छेदं करिष्यति, अप्येकान् प्रमारयिष्यति, अप्येकान उपद्रविष्यति, अपये केषां वस्त्रं प्रतिग्रहं कम्बलं पादपोछनम् आच्छेत्स्यति, विच्छे त्स्यति, भोत्स्यति, अपहरिष्यति, अप्ये केषां भक्तपानं व्युच्छेत्स्यति, अप्येकान् निगरान् करिष्यति अप्येकान् निविषयान् करिष्यति । ततः खलु शतद्वारे नगरे बहवे राजेश्वर यावत् वदिष्यन्ति-वं खलु देवानुमियाः विमलवाहनो राना श्रमणैः निग्रन्यैः मिथ्यात्वं विप्रतियनः, अप्ये कान् आक्रोशति, यावत् निर्विषयान् करोति, तत् नो खलु देवानुप्रियाः । एतत् अस्माकं श्रेयः नो खलु एतत् विमलवाहनस्य राज्ञः श्रेयः नो खलु एतत् राज्यस्य वा, राष्ट्रस्य बा, बलस्य वा, वाहनस्य वा, पुरुषस्य वा, अन्तःपुरस्य वा, जनपदस्य वा, श्रेयः, यत् खलु શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy