________________
प्रमेयचन्द्रिका टीका श०१५ उ०१ सू०२० स० सुनक्षत्रानगारगति निरूपगम् ८०५ वंदित्ता सयमेव पंच महत्वयाई आरुहइ, आरुहित्ता समणा य समणीओ य खामेइ, खामित्ता आलोइयपडिकते समाहिपत्ते कालमासे कालं किच्चा उड्डे चंदिमसूरियं जाव आणयपाणयारण कप्पे वीइवइत्ता अच्चुए कप्पे देवत्ताए उववन्ने, तत्थ णं अत्थेगइयाणं बावीसं सागरोवमाइं ठिई पण्णत्ता, तत्थ णं सुनक्खत्तस्स वि, देवस्स बावीसं सागरोवमाइं सेसं जहा सव्वा. णुभूइस्स जाव अंतं काहिइ ॥सू०२०॥
छाया-भदन्त इति भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, वन्दित्वा नमस्थित्या एवम् अवादीत-एवं खलु देवानुप्रियाणाम् अन्तेवासी प्राची जानपदः सर्वानुभूति म अनगारः प्रकृतिभद्रको यावत्-विनीतः, स खलु तदा गोशालेन मंखलिपुत्रेण तपसा तेजसा भस्मराशीकृतः सन् ऊर्ष चन्द्र सूर्य यावत् ब्रह्मलान्तक महाशुक्र कल्पान् व्यतित्रज्य, सहस्रारे कल्पे देवतया उपपन्नः, तत्र खलु अस्त्ये केषां देवानाम् अष्टादश सागरोपमाणि स्थितिः प्रज्ञप्ता, स खलु सर्वानुभूतिर्देवः तस्मात् देवलोकात् आयुःक्षयेण, भवक्षयेण, स्थितिक्षयेण यावत्-महाविदेहे वर्षे सेत्स्यति यावत् अन्तं करिष्यति । एवं खलु देवानुप्रियाणाम् अन्तेवासी कोशलजानपदः मुनक्षत्रो नाम अनगारः प्रकृतिभद्रको यावत् विनीतः, स खलु भदन्त ! तदा खलु गोशालेन मंखलिपुत्रेण तपसा तेजसा परितापितः सन् कालमासे कालं कृत्वा कुत्र गतः ? कुत्र उपपन्नः, एवं खलु गौतम ! ममान्तेवासी सुनक्षत्रो नाम अनगारः प्रकृतिभद्रको यावत् विनीतः, स खलु तदा गोशालेन मंखलिपुत्रेण तपसा तेजसा परितापितः सन् यत्रैव ममान्तिकं तत्रैव उपागच्छति, उपागत्य वन्दते, नमस्यति, वन्दित्वा, नमस्यित्वा स्वयमेव पञ्च महाव्रतानि आरोहति, आरुह्य श्रमणांश्च श्रमणींश्च, क्षमयति, क्षमयित्वा आलोचितप्रतिक्रान्तः समाधिमाप्तः कालमासे कालं कृत्वा अर्ध्वं चन्द्रमयं यावत् आनतपाणतारणकल्पान व्यतित्रज्य अच्युते कल्पे देवतया उपपन्नः, तत्र खलु अस्त्येकेषां देवानां द्वाविंशति सागरोपमाणि स्थितिः प्रज्ञप्ता, तत्र खलु मुनक्षत्रस्यापि देवस्य द्वाविंशति सागरोपमानि शेषं यथा सर्वानुभूतेः यावद् अन्तं करिष्यति ॥ सू० २०॥
શ્રી ભગવતી સૂત્ર: ૧૧