SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे प्रदक्षिणं करोति, कृत्वा ऊर्च विहाय उत्पतितम् , तत् खलु ततः प्रतिहतं पतिनिवृतं सत् तदेव गोशालस्य मङ्खलिपुत्रस्य शरीरकम् अनुदहत , अनुदहन अन्तः, अन्तः, अनुपविष्टम् । ततः खलु स गोशालो मङ्खलिपुत्रः स्वकेन तेजसा अन्वाविष्टः सन् श्रमणं भगवन्तं महावीरम् एवम् आदीत्-स्वं खलु आयुष्मन् ! काश्यप ! मम तपसा तेजसा अन्वाविष्टः सन् अन्तः पण्णां मासानाम् पित्तज्वरपरिगतशरीरो दाहव्युत्क्रान्त्या छमस्थ एवं कालं करिष्यसि, ततः खलु श्रमणो भगवान् महावीरो गोशालं मङ्खलिपुत्रम् एवम् अबादीत्-नो खलु अहं गोशाल ! तव तपसा तेजसा अन्वाविष्टः सन् अन्तः षण्णां यावत् कालं करिष्यामि, अहं खलु अन्यानि षोडश वर्षाणि जिनः सुहस्ती विहरिष्यामि, त्वं खलु गोशाल ! आत्मनैव स्वकेन तेजसा अन्धाविष्टः सन् अन्तः सप्तरात्रस्य पित्तज्वरपरिगतशरीरो यावत् छमस्थ एवं कालं करिष्यसि । ततः खलु श्रावस्त्यां नगीं शृङ्गाटक यावत् पथेषु बहुजनोऽन्योन्यस्य एवमाख्याति यावत्-एवं प्ररूपयतिएवं खलु-देवानुमियाः ! श्रावस्त्याः नगर्याः बहिः कोष्ठके चैत्ये द्वौ जिनौ संलपतः, एके वदन्ति-त्वं पूर्व कालं करिष्यसि, एके वदन्ति-त्वं पूर्व कालं करिष्यसि, तत्र खलु कः पुनः सम्यग्वादी, कः पुनर्मिथ्यावादी ? तत्र खलु योऽसौ यथा प्रधानो जनः, स वदति-श्रमणो भगवान महावीरः सम्यग्वादी, गोशालो मंखलिपुत्रो मिथ्यावादी । आयोः ! इति श्रमणो भगवान् महावीरः श्रमणान् निर्ग्रन्थान् आमन्य एवम् अवादी-आर्याः ! तत् यथानाम-तृणराशिवा, काष्ठराशिर्वा पत्रराशिर्वा, त्वचाराशिर्वा, तुषराशिर्वा, बुसराशिर्वा, गोमयराशिर्वा, अवकरराशिर्वा, अग्निध्यामितः, अग्निजुष्टः, अग्निपरिणामितः, हततेजाः, गततेजाः, नष्टतेजाः, भ्रष्टतेजाः, लुप्ततेजाः, विनष्टतेजा यावत् एवमेव गोशालो मंखलिपुत्रो मम वधाय शरीरकात्तेजः निःसार्य हततेजाः गततेजाः, यावत् विनष्टतेजाः जातः, तत् छन्देन आर्याः ! यूयं गोशालं मङ्खलिपुत्रं धार्मिक्या प्रतिनोदनया प्रतिनोदयत, मतिनोध, धार्मिक्था प्रतिसारणया प्रति. सारयत, प्रतिसार्य, धार्मिकेण प्रत्युपचारेण प्रत्युपचारयत, प्रत्युपचार्य अर्थश्च देतभिश्च, प्रश्नैश्व, व्याकरणैश्च, कारणैश्च निःस्पृष्टप्रश्नव्याकरणम् कुरुत । ततः खलु ते श्रमणाः निर्ग्रन्थाः, श्रमणेन भगवता महावीरेण एवमुक्ताः सन्तः श्रमणं भगवन्तं महावीरं वन्दन्ते, नमस्यन्ति, वन्दित्वा, नमस्यित्वा यत्रैव गोशालो मङ्खलिपुनस्तत्रैव उपागच्छन्ति , उपागत्य गोशालं मङ्खलिपुत्र धार्मिक्या प्रतिनोदनतया, प्रतिनोदयन्ति, प्रतिनोद्य धार्मिक्या प्रतिसारणया प्रतिसारयन्ति, प्रतिसार्य धार्मिकेण प्रत्युपचारेण प्रत्युएचारयन्ति, प्रत्युपचार्य, अर्थश्च, हेतुभिश्च, कारणैश्च यावद् व्याकरणं कुर्वन्ति । ततः खलु स गोशालो मङ्खलिपुत्रः श्रमणः निर्ग्रन्थैः धामिक्या શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy