SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० १५ गोशालकवृत्तान्तनिरूपणम् ६४९ भगवतैव मुण्डितः, भगवतै। सेधितः, भगवतैव, शिक्षितः, भगवतैव बहुश्रुती कृतः, भगवतएव मिथ्यात्वं विप्रतिपन्नः, तत् मा एवं गोशाल ! नार्हसि गोशाल! सैव तव सा छाया, नो अन्या । ततः खलु स गोशालो मंखलिपुत्रः सर्वानु भूतिनाम्ना अनगारेण एवमुक्तः आसुरक्तो यावत् मिषमिषायमाणः सर्वानुभूतिम् अनगारम् तपसा तेजसा एकाहत्यं कूटाहत्यं यावत् भस्मराशिं करोति । ततः खलु स गोशालो मङ्खलिपुत्रः सर्वानुभूतिम् अनगारम् तपसा तेजसा एकाहत्यं कूटाहत्यं यावत् भस्मराशिं कृत्वा द्वितीयमपि श्रमणं भगवन्तं महावीरम् उच्चावचाभिः आक्रोशनाभिः आक्रोशयति, यावत् सुखं नास्ति । तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य अन्तेवासी कोशलजानपदः सुनक्षत्रो नाम अनगारः प्रकृतिभद्रको विनीतः, धर्माचार्यानुरागेण यथा सर्वानुभूतिस्तथैव यावत् सैव तव सा छाया, नो अन्या । ततः खलु स गोशालो मङ्खलिपुत्रः सुनक्षत्रेण अनगारेण एवमुक्तः सन् आशुरक्तो यावत् मिषमिषायमाणः सुनक्षत्रम् अनगारम् तपसा तेजसा परितापयति । ततः खलु स सुनक्षत्रोऽनगारो गोशालेन मङ्खलिपुत्रेण तपसा तेजसा परितापितः सन् यत्रैव श्रमणो भगवान् महावीरस्तत्रैव उपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं त्रिकृत्वो वन्दते, नमस्पति, वन्दित्वा, नमस्थित्वा स्वयमेव पश्चमहाव्रतानि आरोहति, आरुह्य श्रमणांश्च श्रमणींश्च क्षमयति, क्षमयित्वा आलोचितमतिक्रान्तः समाधिपाप्तः आनुपूर्व्या कालगतः। ततः खलु स गोशालो मंखलिपुत्रः सुनक्षत्रम् अनगारम् तपसा तेजसा परिताप्य तृतीय मपि श्रमणं भगवन्तं महावीरम् उच्चाववाभिः आक्रोशनाभिः आक्रोशयति, सर्व तदेव यावत् सुखं नास्ति, ततः खलु श्रमणो भगवान् महावीरो गोशालं मङ्खलिपुत्रम् एवम् अवादीत-योऽपि तावत् गोशाल ! तथारूपस्य श्रमणस्य वा ब्राह्मणस्य वा तदेव यावत् पयुपास्ते, किमङ्ग,पुनः गोशाल ! त्वम् मयैव प्रव्राजितो यावत् मयैव बहुःश्रुतीकृतः, ममैव मिथ्यात्वं विप्रतिपन्नः ? तत् मा एवं गोशाल ! यावत् नो अन्या । ततः खलु स गोशालो मङ्खलिपुत्रः श्रमणेन भगवता महावीरेण एवमुक्तः सन् आशुरक्तो यावत् मिषमिषायमाणस्तेजः समुद्घातेन समवहन्ति, समवहत्य सप्ताष्टपदानि प्रत्यवष्वकते, प्रत्यवधष्वय श्रमणस्य भगवतो महावीरस्य वधाय शरीरकात्तेनो निसृजति, तदा यथानाम-बातोत्कलिका इति वा, वातमण्डलिका वा, शैले वा, कुडये वा, स्तम्भे वा, स्तूपे वा आत्रियमाणा वा निवार्यमाणा वा सा खलु तत्र नो क्रमते, नो प्रक्रमते, एवमेव गोशालस्यापि मंखलिपुत्रस्प तपस्ते नः, श्रमणस्प भगवतो महावीरस्य वधाय शरीरकात् निसृष्टं सत् तत् खलु तत्र नो क्रमते, नो प्रक्रमते, अश्चिताश्चितं करोति, कृत्वा आदक्षिण भ० ८२ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy