________________
४७२
भगवतीसूत्रे सद्धिं अभिसमन्नागए। तए णं से गोसाले मंखलिपुत्ते हट्टतुटे ममं तिक्खुत्तो आयाहिणपयाहिणं जाव नमंसित्ता एवं वयासीतुभे णं भंते ! मम धम्मायरिया, अहं णं तुम्भं अंतेवासी। तए णं अहं गोयमा! गोसालस्स मंखलिपुत्तस्स, एयमटुं पडिसुणेमि, तए णं अहं गोयमा! गोसाले णं मंखलिपुत्ते णं सद्धि पणियभूमीए छठवासाइं लाभ, अलाभ, सुखं, दुक्खं, सकारमसकारं पञ्चणुब्भवमाणे अणिञ्चजागरियं विहरित्था॥सू०३॥
छाया-तस्मिन् काले, तस्मिन् समये, अहं गौतम ! त्रिंशद्वर्षाणि अगार वासमुषित्वा, अम्बापित्रोः देवत्वगतयोः, एवं यथा भावनायां यावद् एकं देव दृष्यमादाय मुण्डो भूत्वा अगाराद् अनगारितां प्रवजितुम्, ततः खल्लु अहं गौतम ! प्रथम वर्षावासम् अर्द्धमासार्द्धमासेन क्षममाणः अस्थिकग्रामं निश्राय प्रथमम् अन्तरावासं वर्षावासम् उपागतः, द्वितीय वर्ष मासमासेन क्षममाणः पूर्वानुपूर्वी चरन् ग्रामानुग्राम द्रवन् यौव राजगृह यत्रैव नालन्दा बाह्या, यत्रैव तन्तुवाय शाला, तत्रैव उपागच्छामि, उपागत्य यथा प्रतिरूपम् अवग्रहम् अवगृ. हामि, अवगृह्य तन्तुवायशालाया एकदेशे वर्षावासमुपागतः, ततः खलु अहम् गौतम ! प्रथमं मासक्षमणमुपसंपद्य खलु विहरामि। ततः खलु स गोशालो मंखलिपुत्रश्चित्रफलकहस्तगतो मंखत्वेन आत्मानं भावयन् पूर्वानुपूर्वी चरन् यावत् द्रवन् यत्रैव राजगृह नगर यत्रैव नालन्दा बाह्या, यत्रैव तन्तुवायशाला तत्रैव उपागच्छति, उपागत्य तन्तुवायशालाया एकदेशे भाण्डनिक्षेपं करोति। कृत्वा राजगृहे नगरे उच्चनीच यावत् अन्यत्र कुत्रापि वसतिम् अलभमान स्तस्याश्च तन्तुवायशालायाः एकदेशे वर्षावासमुपागतः, यत्रैव खलु अहं गौतम ! ततः खलु अहं गौतम ! प्रथममासक्षमणपारणके तन्तुवायशालातः प्रतिनिष्क्रमामि, पतिनिष्क्रम्य नालन्दा बाह्य मध्यमध्येन यत्रैव राजगृह नगरं तत्रैव उपागच्छामि, उपागत्य राजगृहे नगरे उच्चनीच यावत्-अटन् विजयस्य गाथापतेः गृहम् अनुप्रविष्टः । ततः खलु स विजयो गाथापतिः माम् आयन्तं पश्यति, दृष्ट्वा दृष्टतुष्टः क्षिप्रमेव आसनात् अभ्युत्तिष्ठते, अभ्युत्थाय पादपीठात् प्रत्यवरोहति, प्रत्यवरुह्य पादुके अमुश्चति, अवमुच्य एकशाटकम् उत्तरासङ्गं करोति, अञ्जलिमुकुलितहस्तो माम् सप्ताष्टपदानि अनुगच्छति, अनुगत्य मम त्रि:कृत्वः आदक्षिणं प्रदक्षिणं
શ્રી ભગવતી સૂત્ર: ૧૧