________________
भगवतीसूत्रे
शकुनिः स्यात् द्वावपि पादौ समतुरङ्गायमानः, समतुरङ्गायमानो गच्छेत् , एवमेव अनगारः शेषं तदेव, तत् यथानाम-पक्षि विडालकः स्यात् वृक्षात् वृक्षं डीयमानो गच्छेत् , एवमेव अनगारः शेषं तच्चैव, तत् यथानाम-हंसः स्यात् तीरात् तीरम् अभिरममाणः अभिरममाणो गच्छेत् एवमेव अनगारो हंसकृत्यहस्तगतेन आत्मना तदेव, तत् यथानाम-समुद्रवायसः स्याम् वीचिकात् वीचिकं डीयमानो गच्छेत् , एवमेव तथैव, तत् यथानाम-कश्चित् पुरुषः चक्रं गृहीत्वा गच्छेन् , एवमेव, अनगारोऽप भावितात्मा चक्रकृत्यहस्तगतेन आत्मना, शेषं यथा केयाघटिकया, एवं छत्रम् , एवं चामरम् , तत् यथानाम-कश्चित्पुरुषो रत्नं गृहीत्वा गच्छेत् , एवमेव, एवं वज्रम् , वैडूर्यकम् , यावत्-रिष्टम् , एवम् उत्पलहस्तकम् , एवं पद्महस्तकम् एवं कुमुदहस्तकम् , एवं यावत्-तत् यथानाम कश्चित् पुरुषः सहस्रपत्रकं गृहीत्वा गच्छेत् , एवमेव, तत् यथानाम-कश्चित् पुरुषो बिसम् अवदार्य अवदार्य गच्छेत् , पवमेव अनागारोऽपि बिसकृत्यहस्तगतेन आत्मना तदेव, तत् यथा नाम-मृगालिका स्यात् उद्के कायम् उन्मज्ज्य उन्मज्ज्य विष्ठेत् , एवमेव शेषं यथा वल्गुल्याम् । तम् यथानाम-वनवण्डः स्यात् कृष्णः कृष्णावभासः, स्यात्-निकुरम्बभूतः पासादीयः ४, एवमेव अनगारोऽपि भावितात्मा वनषण्डकृत्यहस्तगतेन आत्मना अचं विहायसि उत्पतेत् शेषं तदेव, तत् यथानाम-पुष्करिणी स्यात् चतुष्कोणा समतीरा आनुपूर्य सुनात यावत् सदुन्नतमधुरसरणादिकाः प्रासादिकाः एवमेव अनगारोऽपि भवितात्मा पुष्करिणीकृत्यहस्तगतेन आत्मना उचं विहायसि उत्पतेत् ? इन्त, उत्पतेत् , अनगारः खलु भदन्त ! भावितास्मा कियन्ति प्रभुः पुष्करिणी कृत्यगतानि रूपाणि विकुर्वितुम् ? शेषं तदेव यावत् विकुर्विष्यन्ति वा, वत् भदन्त ! किं मायी विकुर्वति, अमायी विकुर्वति ? गौतम ! मायी विकुर्वति, नो अमायी विकुर्वति, मायी खलु तस्य स्थानस्य अनालोचितपतिक्रान्तः० एवं यथा तृतीयशतके चतुर्थों देशके यावत् अस्ति तस्याराधना, तदेवं भदन्त ! तदेवं भदन्त ! यावत् विहरति इति ॥ मू० १ ॥
॥ नवमोद्देशकः समाप्तः ॥ टीका-अष्टमोद्देशके कर्मस्थितेरुक्तस्वेन कर्मवशाच्च वैक्रियकरणशक्तिभवतीति तद्वक्तव्यतां प्ररूपयितुमाह-'रायगिहे' इत्यादि, 'रायगिहे जाव एवं वयासी'-राजगृहे यावत्-नगरे स्वामी समवसतः, धर्मकथा श्रोतुं पर्षद् निर्गच्छति, तच्छुत्वा प्रतिगता पर्षत् , ततो विनयेन शुश्रूषमाणः गौतमः पर्युपासीनः एवंवक्ष्यमाणप्रकारेण, अवादीत्-‘से जहा नामए केइपुरिसे केयाघडियं गहाय गच्छे.
શ્રી ભગવતી સૂત્ર: ૧૧