SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ५२२ भगवतीसूत्रे अवधिदर्शनिनश्च च्यावयितव्याः शेषं तदेव, असंख्येयविस्तृतेषु एवमेव त्रीणि गमकानि, नारं त्रिवपि गमकेषु असंख्येया भणितव्याः, अवधिज्ञानिनश्च, अवधिदर्शनिनश्च संख्या प्रवन्ति, शेषं तदेव, एवं यथा सौधर्मवक्तव्यता भणिता तथा ईशानेऽपि षट् गमकानि भणितव्यानि, सनत्कुमारे एवञ्चैत्र, नवरं स्त्रीवेदका न उपपद्यन्ते, प्रज्ञप्तेषु च न भण्यन्ते, असंज्ञिनस्त्रिष्वपि गमकेषु न भण्यन्ते, शेषं तदेव, एवं यावत् सहस्रारे, नानात्वं विमानेषु, लेश्यासु च , शेषं तदेव, आनतपाणतेषु खलु भदन्त ! कल्पेषु कियन्ति विमानावासशतानि प्रज्ञप्तानि ? हे गौतम ! चत्वारि विमानावासशतानि प्रज्ञप्तानि, ते खलु भदन्त ! कि संख्येयविस्तृताः, असंख्ययविस्तृताः ? गौतम ! संख्येयविस्तृता अपि, असंख्येयविस्तृता अपि, एवं संख्येयविस्तृतेषु त्रीणि गमकानि यथा सहस्रारे असंख्पेयविस्तृतेषु, विमानेषु उपपद्यन्तेषु च व्यवन्तिषु च एवं चैव संख्येया भणितव्याः, प्रज्ञप्तेषु असंख्येयाः, नवरं नो इन्द्रियोपयुक्ताः, अनन्तरोपपन्नकाः, अनन्तरावगाढाः, अनन्तराहारकार, अनन्तरपर्याप्तकाश्च एतेषां जघन्येन एको वा, द्वौ वा, त्रयो वा, उत्कृष्टेन संख्येयाः प्रज्ञप्ताः, शेषाः असंख्येया भणितव्याः, आरणाऽच्युतेषु एवं चैव यथाऽऽनतमाणतेषु, नानात्वं विमानेषु, एवं ग्रैवेयका अपि, कति खलु भदन्त ! अनुत्तरविमानाः प्रज्ञप्ताः ? गौतम ! पञ्च अनुत्तरविमानाः प्रज्ञप्ताः ते खलु भदन्त ! किं संख्येयविस्तृताः, असंख्येयविस्तृताः ? गौतम ! संख्येयविस्तृतश्च, असंख्येयविस्तृताच पञ्चसु खलु भदन्त ! अनुसरविमानेषु संख्येयविस्तृते विमाने एकसमयेन कियन्तः अनुत्तरोपपातिका देवा उपपद्यन्ते ? कियन्तः शुक्ललेश्या उपपद्यन्ते ? पृच्छा, तथैव, गौतम ! पञ्चसु खलु अनुत्तरविमानेषु संख्येयवितृस्ते अनुत्तरविमाने एकसमयेन जघन्येन एको वा, द्वौ वा, त्रयो वा, उत्कृष्टेन संख्येयाः अनुतरोपपातिकाः देवाः उपपद्यन्ते, एवं यथा अवेयकविमानेषु संख्येयविस्तृतेषु, नवरं कृष्णपाक्षिकाः, अभवसिद्धिकाः त्रिषु अज्ञानेषु एते न उपपद्यन्ते, न व्यवन्ति, न प्रज्ञप्तेषु भणितब्या, अचरमा अपि प्रतिषिध्यन्ते, यावत् संस्पेयाः चरमा: प्रज्ञप्ताः, शेषं तदेव, असंख्येयविस्तृतेष्वपि एते न भण्यन्ते, नवरम् अचरमाः सन्ति, शेषं यथा ग्रैवेयकेषु असंख्येयविस्तृतेषु यावत् असंख्येयाः अचरमाः प्रज्ञप्ताः, चतुष्पष्टौ खलु भदन्त ! असुरकुमारावासशतसहस्रेषु संख्येयविस्तृतेषु अमुरकुमारावासेषु किं सम्यग्दृष्टप: असुरकुमाराः उपपद्यन्ते ? मिथ्यादृष्टयः, एवं यथा रत्नप्रभायां त्रय आलापका भणितास्तथा भणितव्याः, एवम् असंख्येयविस्तृतेष्वपि त्रीणि गमकानि, एवं यावत् अवेयकविमानेषु, अनुत्तरविमानेषु एवमेव, नवरं त्रिष्वपि आलापकेषु मिथ्यादृष्टयः सम्यग् मिथ्यादृष्टयश्च न भण्यन्ते, શ્રી ભગવતી સૂત્ર : ૧૦
SR No.006324
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages735
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy