SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ० २ सू०१ देवविशेषनिरूपणम् ५२१ संख्येयविस्तृता अधि, असंख्येयविस्तृता अपि, चतुष्पष्टयां खलु भदन्त ! असुरकुमारावासशतसहस्रेषु संख्येयविस्तृलेषु असुरकुमारावासेषु एकसमयेन कियन्तः असुरकुमारा उपपद्यन्ते ? यावत् कियन्तस्तेजोलेश्या उपपद्यन्ते ? कियन्तः कृष्णपाक्षिका उपपद्यन्ते ? एवं यथा रत्नमायां तथैव पृच्छा, तथैव व्याकरणम् नवरं द्वाभ्यां वेदाभ्याम् उपपद्यन्ते, नपुंसकवेदकाः न उपपद्यन्ते शेषं तदेव उद्वर्तका अपि तथैव, नवरम् असंशिन उद्वर्तन्ते, अवधिज्ञानिनः, अबधिदर्शनिनश्च न उद्वर्तन्ते, शेषं तदेव, प्रज्ञप्तकेषु तथैव, नवरं संख्येयकाः स्त्रीवेदकाः प्रज्ञप्ताः, एवं पुरुषवेदका अपि, नपुंमकवेदकाः न सन्ति, क्रोधकषायिणः स्यात् सन्ति, स्यात् न सन्ति, ये सन्ति जघन्येन एको वा, द्वौ वा, त्रयो वा' उत्कृष्टेन संख्येयाः प्रज्ञप्ताः, एवं मानकपायिणः, मायाकगायिणः, संख्येयाः लोभकपायिणः प्रज्ञप्ताः, शेपं तदेव, त्रिष्वपि गमकेषु संख्येयेषु चतस्रो लेश्याः भणितव्याः एवम् असंख्येयविस्तृतेष्वपि, नवरम् त्रिष्वपि गमकेषु असंख्येया भणितव्याः, यावत् असंख्येयाः, अचरमाः पज्ञप्ताः, कियन्ति खलु भदन्त ! नागकुमारावासशतसहस्राणि प्रज्ञप्तानि ? एवं यावत्-स्तनितकुमाराः, नवरं यत्र यावन्ति भवनानि, कियन्ति खलु भदन्त ! वानव्यन्तरावासशतसहस्राणि प्रज्ञप्तानि ? गौतम ! असंख्येयानि वानव्यन्तरावासशतसहस्राणि प्रज्ञप्तानि, ते खलु भदन्त ! किं संख्येयविस्तृताः, असंख्येयविस्तृताः ? गौतम ! संख्येयविस्तृताः, नो असंख्येयविस्तृताः, संख्येयेषु खलु भदन्त ! वानव्यन्तरावास शतसहस्रेषु एकसमयेन कियन्तः वानव्यन्तरा उपपद्यन्ते ? एवं यथा असुरकुमाराणां संख्येयविस्तृतेषु त्रीणि गमकानि तथैव भणितव्यानि वानव्यन्तराणामपि त्रीणि गमकानि, कियन्ति खलु भदन्त ! ज्योतिषिकविमानावासशतसहस्राणि प्रज्ञप्तानि ? गौतम! असंख्येयानि ज्योतिषिकविमानावासशत. सहस्राणि प्रज्ञप्तानि ? ते खलु भदन्त ! किं संख्येयविस्तृताः असंख्येयविस्तृताः ? एवं यथा वानव्यन्तराणां तथा ज्योतिषिकाणामपि त्रीणि गमकानि भणितव्यानि, नवरम् एका तेजोलेश्या, उपपद्यन्तेषु प्रज्ञप्तेषु च असंज्ञिनो न सन्ति, शेषं तदेव, सौधर्मे खलु भदन्त ! कल्पे कियन्ति विमानावासशतसहस्राणि प्रज्ञप्तानि ? गौतम ! द्वात्रिंशत् विमानावासशतसहस्राणि प्रज्ञप्तानि, ते खलु भदन्त ! कि संख्येयविस्तृताः, असंख्येयविस्तृताः ? गौतम ! संख्येयविस्तृता अपि असंख्येयविस्तृता अपि, सौधर्म खलु भदन्त ! कल्पे द्वात्रिंशतिविमानावासशतसहस्रेषु संख्येयविस्तृतेषु विमानेषु एकसमयेन कियन्तः सौधर्मिका देवा उपपद्यन्ते ? कियनस्तेजोलेश्या उपपद्यन्ते ? एवं यथा ज्योतिपिकाणां त्रीणि गमकानि तथैव त्रीणि गमकानि भणितव्यानि, नवरं विष्वपि संख्येया भणितव्याः, अवधिज्ञानिनः भर ६६ શ્રી ભગવતી સૂત્ર: ૧૦
SR No.006324
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages735
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy