________________
भगवतीसूत्रे छाया-आत्मा भदन्त ! रत्नप्रभा पृथिवी, अन्या रत्नप्रभा पृथिवी गौतम ! रत्नप्रभा पृथिवी स्यात् आत्मा, स्यात् नो आत्मा, स्यात् अवक्तव्यम्-आत्मा इतिच नो आत्मा इतिच, तत् केनार्थेन भदन्त ! एवमुच्यते-रत्नपभा पृथिवी स्यात् आत्मा स्यात् नो आत्मा, स्थात् अवक्तव्यम्-आत्मा इति च नो आत्मा इति च ? गौतम ! आत्मन: आदिष्टे आत्मा, परस्य आदिष्टे नो आत्मा, तदुभयस्य आदिष्टे अवक्तव्यं-रत्नप्रभाप्रथिवी आत्मा इति च, नो आत्मा इति च, तत् तेनाथेन तदेव यावत् नो आत्मा इति च, आत्मा भदन्त ! शर्कराप्रभा पृथिवी, यथा रत्नपभा पृथिवी तथा शर्करामभाऽपि, एवं यावत् अधः सप्तमी, आत्मा भदन्त ! सौधर्मः कल्पः पृच्छा, गौतम ! सौधर्मः कल्प: स्यात् आत्मा, स्यात् नो आत्मा यावत् नो आत्मा इति च, तत् केनार्थेन भदन्त ! यावत् नो आत्मा इति च ? गौतम ! आत्मनः आदिष्टे आत्मा, परस्य आदिष्टे नो आत्मा तदुभयस्य आदिष्टे अवक्तव्यम्-आत्मा इति च नोआत्मा इति च, तत् तेनार्थेन तदेव यावत् नो आत्मा इति च, एवं यावत् अच्युतः कल्पः, आत्मा भदन्त ! |वेयकविमानः, अन्यो अवेयकविमानः' ? एवं यथा रत्नप्रभा तथैव, एवमनुत्तरविमानः अपि, एवम् ईषत्मागभारा अपि, आत्मा भदन्त ! परमाणुपुद्गलः, अन्यः परमाणुपुद्गलः ? एवं यथा सौधर्मः कल्पस्तथा परमाणुपुद्गलोऽपि भणितव्यः । आत्मा भदन्त ! द्विपदेशिकः स्कन्धः, अन्यो द्विप्रदेशिकः स्कन्धः? गौतम ! द्विप्रदेशिका स्कन्धः स्यात् आत्मा १, स्यात् नो आत्मा २, स्यात् अवक्तव्यम्-आत्मा इति च, नो आत्मा इति च ३ स्यात् आत्मा च नो आत्मा च ४, स्यात् आत्मा च अवक्तव्यम्-आत्मा इति च नो आत्मा इति च ५, स्यात् नो आत्मा च अवक्तव्यम् आत्मा इति च, नो आत्मा इति च ६, तत् केनार्थेन भदन्त ! एवमुच्यते-तदेव यावत् नो आत्मा इति च अवक्तव्यम्- आत्मा इति च नो आत्मा इति च ? गौतम ! आत्मनः ओदिष्टे आत्मा १, परस्य आदिष्टे नो आत्मा २, तदुभयस्य आदिष्टे अबक्तव्यम्-द्विप्रदेशिकः स्कन्धः आत्मा इति च नोआत्मा इति च ३, देश आदिष्टः सद्भावपर्यवः, देश आदिष्टः असद्भावपर्यवो द्विपदेशिकः स्कन्धः आत्मा च नो आत्मा च ४ , देश आदिष्टः सद्भावपर्यवः, देश आदिष्टस्तदुभयपर्यवो द्विपदेशिकः स्कन्धः आत्मा च अवक्तव्यम्-आत्मा इति च नो आत्मा इति च ५, देश आदिष्टः असद्भावपर्यवः, देश आदिष्टः तदुभयपर्यवो द्विपदेशिक: स्कन्धो नोआत्मा च अवक्तव्यम्-आत्मा इति च नो आत्मा इति च ६, तत् तेनाथेन तदेव यावत्-नो आत्मा इति च ।
શ્રી ભગવતી સૂત્ર : ૧૦