SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २२८ भगवतीसूत्रे पच्चणुब्भवमाणा विहरति । सेवं भंते ! सेवं भंते ! ति भगवं गोयमे समणं भगवं महावीरं जाव विहरइ ॥सू०४॥ बारसमे सए छटो उद्देसो समत्तो ॥१२-६॥ छाया-चन्द्रस्य खलु भदन्त ! ज्योतिषिकेन्द्रस्य ज्योतिषिकराजस्य कति अनमहिष्यः प्रज्ञप्ताः ? यथा दशमशतके यावत् नो चैव खलु मैथुनमत्यधिकम् , सूरस्यापि तथैव, चन्द्रसयौँ खलु भदन्त ! ज्योतिषि केन्द्रों ज्योतिपिकराजौ कीर शान् कामभोगान प्रत्यनुभवन्ती विहरतः ? गौतम ! स यथानाम कश्चित् पुरुषः प्रथमयौवनोत्थानबलस्थः प्रथमयौवनोत्थानबलस्थया भार्यया सार्द्धम् अचिरवृत्त. विवाहकार्यः अर्थगवेषणतायै षोडशवर्षविभोपितः स खलु ततो लब्धार्थः कृतकार्यः, अनघसमग्रः, पुनरपि निजकगृहं शीघ्रमागतःकृतवलिकर्मा कृतकौतुकमङ्गलप्रायश्चित्तः, सर्यालङ्कारविभूषितः मनोझं स्थालीपाकशुद्धम् अष्टादशव्यञ्जनाकुलं भोजनं भुक्तः सन् तस्मिन् तादृशके वासगृहे वर्णकः, महाबलः कुमारो यावत् शयनोपचारकलितः तया तादृश्या भार्यया शृङ्गारागारचारुवेपया, यावत् कलितया अनुरक्तया, अविरक्तया मनोनुकूलया सार्द्धम् , इष्टान् शब्दान् यावत् स्पर्शान पञ्चविधान मानु. प्यकान् कामभोगान् प्रत्यनुभवन् विहरति, स खलु गौतम ! पुरुषो व्यवशमनकालसमये कीदृशं शाता सौख्यं प्रत्यनुभवन् विहरति ? उदार श्रमणायुष्मन् ! तस्थ खलु गौतम ! पुरुषस्य कामभोगेभ्यो वानव्यन्तराणां देवानाम् एभ्यः अनन्तगुणविशिष्टतराश्चैव कामभोगाः, वानव्यन्तराणां देवानां कामभोगेभ्यः असुरेन्द्रवर्जितानां भवनवासिनां देवानाम् एतेभ्यः अनन्तगुणविशिष्टतराश्चैव कामभोगा, असुरेन्द्रवजितानां भवनवासिनाम् देवानां कामभोगेभ्यः असुरकुमाराणां देवानाम् एतेभ्यः अनन्तगुणविशिष्टतराश्चैव कामभोगाः, असुरकुमाराणां देवानां कामभोगे. भ्यो ग्रहगणनक्षत्रतारारूपाणां ज्योतिषिकाणां देवानाम् एतेभ्यः अनन्तगुणविशिएतराश्चैव कामभोगाः, ग्रहगणनक्षत्र यावत् कामभोगेभ्यश्चन्द्रसूर्य यो ज्योतिषिकयोः ज्योतिपिकराजयोः एतेभ्यः अनन्तगुणविशिष्टतराश्चैव कामभोगाः। चन्द्रम्यौँ खलु गौतम ! ज्योतिषिकेन्द्रौ ज्योतिषिकराजौ ईदृशान् कामभोगान् प्रत्यनुभवन्तौ विहरतः । तदेवं भदन्त ! तदेवं भदन्त ! इति भगवान् गौतमः श्रमणं भगवन्तं महावीरं यावत् विहरति ॥स०४॥ द्वादशशतके षष्ठोदेशः समाप्तः॥ શ્રી ભગવતી સૂત્ર : ૧૦
SR No.006324
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages735
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy