________________
भगवती सूत्रे
1
चितरजत्राणे रक्तांशुकसंवृते, सुरम्ये, अजिनक - रूतचूरनवनीत तूलस्पर्शे, सुगन्धिवरकुसुमचूर्णशयनोपचारकलिते अर्द्धरात्रकालसमये सुवजागरा निद्राती निद्राती इदमेतद्रूपम् उदारं कल्याणं शिवं धन्यं मङ्गलं सश्रीकं महारूपनं पश्यन्ती प्रतिबुद्धा, दाररजतक्षीरसागर-शशाङ्क किरण-दकरजो- रजतमहाशैल- पाण्डुरतरोरुरमणीयप्रेक्षणीयम् स्थिरलष्टप्रकोष्ठवृत्तपीवर - सुश्लिष्टविशिष्टतीक्ष्णदंष्टाविडम्बितमुखं परिकर्मित जात्यकमलको मलमात्रिकशोभमानलष्टौष्ठम्, रक्तोत्पलपत्रमृदुकसुकुमारतालुजिहम्, मूषागतमवरकनकतापितम् आवर्तयत्ततडि विमलसदृशनयनम्, विशालपीवरोरुम्, परिपूर्णत्रिपुलस्कन्धम्, मृदुविशद सूक्ष्मलक्षणमशस्वविस्तीर्ण केशरसटोपशोभितम्, उच्छ्रितसु निर्मितसुजातास्फोटितका मुलं, सौम्य सौम्याकारं लीलायन्तम् जृम्भायमाणं नभस्तलात् अवपतन्तम् निजकवदनम् अतिपतन्तं सिंहं स्वप्ने दष्ट्वा खल्ल मतिबुद्धा । ततः खल्ल सा प्रभावती देवी इममेतद्रूपम् उदारं यावत् सश्रीकं महास्वप्नं दृष्ट्वा खल प्रतिबुद्धा सती हृष्टतुष्ठ यावत्- हृदयाधारात कदम्बपुष्पकमिव समुच्छ्वसितरोमकूपा तं स्वप्नमवगृह्णाति, अत्रगृह्य शयनतः अभ्युत्तिष्ठति, अभ्युत्थाय अस्वरितमचपलमसंभ्रान्तवया अविलम्बितया राजहंससहश्या गत्या यत्रैव बलस्य राज्ञः शयनीयं तत्रैवोपागच्छति, उपागत्य बलं राजानं ताभिः इष्टाभिः कान्ताभिः प्रियाभिः मनोज्ञाभिः मनोऽमाभिः उदाराभिः कल्याणाभिः शिवाभिः धन्याभिः मङ्गल्याभिः सश्रीकाभिः मितमधुरम जुलाभिः गीर्भिः संलपन्ती प्रतिबोधयति । प्रतिबोध्य बलेन राज्ञा अभ्यनुज्ञाता सती नानामणिरत्नभक्तिचित्रे भद्रासने निषीदति, निषद्य आश्वस्ता, विश्वस्ता सुखासनवरगता बलं राजानम् तामिः इष्टाभिः कान्ताभिः यावत् संलपन्ती संलपन्ती एवम् अवादीत्-एवं खल्लु अहं देवानुप्रियाः ! अथ तस्मिन् तादृशके शयनीये साङ्गिने तदेव यावत् निजकवदनमविपतन्तं सिंहं स्वप्ने दृष्ट्वा, खलु प्रतिबुद्धा, तत् खलु देवानुभियाः । एतस्य उदारस्य यावत् महास्वप्नस्य किं मन्ये कल्याणः फलवृत्तिविशेषो भवि - ब्यति ? । ततः खलु स बलो राजा प्रभावत्याः देव्याः अन्तिकम् एतमर्थे श्रुत्वा निशम्य दृष्टदृष्ट यावत् - हृतहृदयो धाराहतनी पसुरभिकुसुमचञ्चु मालाथिततनुकः उच्छ्रितरोमकूपः तं स्वप्नम् अवगृह्णाति अवगृह्य ईहां प्रविशति, प्रविश्य आत्मनः स्वाभाविकेन मतिपूर्वकेण बुद्धिविज्ञानेन तस्य स्वप्नस्य अर्थावग्रहणं करोति, कृत्वा प्रभावती देवताभिः इष्टाभिः कान्ताभिः यावत् - मङ्गल्याभिः मितमधुरसश्रीकाभिः संलपन् संलपन एवम् अवादीत् उदारः खलु त्वया देवि ! स्वप्नः दृष्टः, कल्याणः खलु स्वया देवि ! यावत्, सश्रीकः खलु त्वया देवि० 1 स्वप्नः
"
"
४८४
શ્રી ભગવતી સૂત્ર : ૯