________________
भगवतीस्त्रे क्षेत्रलोकः खलु भदन्त ! किं संस्थितः प्रज्ञप्तः ? गौतम ! तमाकारसंस्थितः प्रज्ञप्तः। तिर्यग्लोकक्षेत्रलोकः खलु भदन्त ! किं संस्थिवः प्रज्ञप्तः ? गौतम ! झल्लरीसंस्थितः प्रज्ञप्तः। ऊर्श्वलोकक्षेत्रलोकपृच्छा, ऊर्ध्वमृदङ्गाकारसस्थितः प्रज्ञप्तः । लोकः खलु भदन्त ! किं संस्थितः प्रज्ञप्तः ? गौतम ! सुप्रतिष्ठकसस्थितो लोकः प्रज्ञप्तः, तद्यथा-अन्ते विस्तीर्णः, मध्ये संक्षिप्तः, यथा सप्तमशतके प्रथमोद्देशके यावत् अन्तं करोति । अलोकः खलु भदन्त ! किं सस्थितः प्रज्ञप्तः? गौतम ! शुषिरगोलसंस्थितः प्रज्ञप्तः अधोलोकक्षेत्रलोके खलु भदन्त ! कि जीवाः, जीवदेशाः, जीवपदेशा : ? एवं यथा ऐन्द्रीदिक, तथैव निरवशेष भणितव्यम्, यावत् अद्धासमयः, । तिर्यग्लोकक्षेत्रलोके खलु भदन्त ! किं जीवाः, जीवदेशाः, जीवप्रदेशाः ? एवमेव, एवम् ऊर्ध्वलोकक्षेत्रलोकोऽपि, नवरम्अरूपिणः षडविधाः, अद्धासमयो नास्ति । लोके खलु भदन्त ! किं जीवाः, यथा द्वितीयशतके अस्तिकायोद्देशके (१०) लोकाकाशः नवरम्-अरूपिणः सप्तापि यावत् अधर्मास्तिकायस्य प्रदेशाः, नो आकाशास्तिकायः, आकाशास्तिकायस्य देशः, आकाशास्तिकायस्य प्रदेशाः, अद्धासमयः, शेषं तदेव, अलोके खलु भदन्त ! किं जीवाः, जीवदेशाः, जीवप्रदेशा : १ एवं यथा अस्तिकायोद्देशके (श०२-उ० १०) अलोकाकाशस्तथैव निरक्शेष यावत्-अनन्तभागोनम् । अधोलोकक्षेत्रलोकस्य खलु भदन्त ! एकस्मिन् आकाशपदेशे किं जीवाः, जीवदेशाः, जीवप्रदेशाः, अजीवाः, अजीवदेशाः, अजीवप्रदेशाः ? गौतम ! नो जीवाः जीवदेशा अपि, जीवप्रदेशा अपि, अजीवा अपि, अजीवदेशा अपि अजीवप्रदेशा अपि, ये जीवदेशास्ते नियमात् एकेन्द्रियदेशाः ? अथवा एकेन्द्रियदेशाश्च द्वीन्द्रियस्य देशः २, अथवा एकेन्द्रियदेशाच, द्वीन्द्रियाणां च देशाः ३, एवं मध्यमविरहितो यावतू-अनिन्द्रियेषु यावत् अथवा एकेन्द्रियदेशाच, अनिन्द्रियाणां च देशाच, ये जीवमदेशास्ते नियमात् एकेन्द्रियप्रदेशाः १, अथवा एकेन्द्रियप्रदेशाच, द्वीन्द्रियस्य प्रदेशाः २, अथवा एकेन्द्रियप्रदेशाश्व, द्वीन्द्रियाणां प्रदेशाः ३ । एवम् आदि विरहितो यावत् पश्चेन्द्रियेषु, अनिन्द्रियेषु त्रिकभङ्गः, ये अजीवास्ते द्विविधाः प्रज्ञप्ताः, तद्यथा-रूप्यजीवाश्च, अरूप्यजीवाश्च, रूपिणस्तथैव, ये अरूप्यजीवास्ते पञ्चविधाः प्रज्ञप्ताः, तद्यथा-नो धर्मास्तिकायः, धर्मास्तिकायस्य देशः १, धर्मास्तिकायस्य प्रदेशः २, एवम् अधर्मास्तिकायस्यापि ४, अद्धासमयः ५। तिर्यग्लोकक्षेत्रलोकस्य खलु भदन्त ! एकस्मिन् आकाशप्रदेशे किं जीवाः, जीवदेशाः, जीवप्रदेशाः, ? एवं यथा अधोलोकक्षेत्रलोकस्य तथैव, एवम् ऊर्बलोकक्षेत्रलोकस्यापि, नवरम् अद्धासमयो नास्ति । अरूपिणश्च
શ્રી ભગવતી સૂત્ર : ૯