SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे राजर्षिः प्रथमषष्ठक्षमणपारणे आतापनभूमितः प्रत्यवरोहति, प्रत्यवरुह्य वल्कलवस्त्रनिवसितो यत्रैव स्वकम् उटजं तत्रैव उपागच्छति, उपागत्य किढिनसांकायिक गृह्णाति, गृहीत्वा पौरस्त्यायां दिशि सोमो महाराजः प्रस्थाने प्रस्थितम् अभिरक्षतु शिवं राजर्षिम् , अभिरक्ष्य यानि च तत्र कन्दानि च, मूलानि च त्वचश्व, पत्राणिच, पुष्पाणि च, फलानि च, बोजानि च, हरितानि च, तानि अनुजानातु इतिकृत्वा पौरस्त्यां दिश प्रमरति, प्रसृत्य यानि तत्र कन्दानि च यावत् हरितानि च तानि. गृह्णाति, गृहीत्वा किढिनसांकायिकं भरति, भृत्वा दर्भाच, समिधश्च पत्रामोटकं च गृह्णाति, गृहीत्वा यत्रैव स्वकः उटजः तत्रैव उपागच्छति, उपागत्य किढिनसां कायिक स्थापयति, स्थापयित्वा वेदिम् वर्द्ध यति, वर्द्धयित्वा उपलेपनसंमार्जनं करोति, कृत्वा दर्भसगर्भकलशहस्तर तो यत्रैव गङ्गामहानदी तत्रैव उपागच्छति, उपागत्य गङ्गामहानदीम् अवगाहते, अवगाह्य जलमज्जनं करोति, कृत्वा जलक्रीडां करोति, कृत्वा जलाभिषेकं करोति, कृत्वा आचान्तः चोक्षः परभशुचीभूतो दैवतपितृकृतकार्यः दर्भ सगर्भ कलशहस्तगतो गङ्गाया महानद्याः प्रत्यवतरति, प्रत्यवतीर्य यत्रैव स्वकउटजः तत्रैव उपागच्छति, उपागत्य दर्मेश्व कुशेश्व बालकाभिश्च वेदि रचयति, रचयित्वा शरकेण अरणिं मथ्नाति, मथित्वा अग्नि पातयति, पातयित्वा अग्नि संधुक्ष समित्काष्ठानि प्रक्षिपति, प्रक्षिप्य अग्निमुज्ज्वाल्य, अग्ने दक्षिणे पाश्र्वे सप्ताङ्गानि समादधाति, तद्यथा-सकथाम् १, वल्कलम् २, स्थानम् ३, शय्याभाण्डम् ४, कमण्डलुम् ५, दण्डदारु ६, तथाऽऽत्मानम् ७, अथ तानि समादधाति, मधुनाच घतेन च तण्डुलैश्च अग्नि जुहोति, हुत्वा चरुं साधयति, साधयित्वा बलिवैश्वदेवं करोति कृत्वा अतिथिपूजां करोति, कृत्वा ततःपश्चात् आत्मना आहारमाहरति । ततः खलु शिवो राजर्षिः द्वितीयं पष्ठक्षपणम् उपसंपद्य विहरति, ततःखलु स शिवो राजर्षिः द्वितीये षष्ठक्षपणपारणे आतापनभूमितः प्रत्यवरोहति, प्रत्यवरुह्य एवं यथा प्रथमपारणे, नवरं दक्षिणां दिशं प्रोक्षति, प्रोक्ष्य दक्षिणस्यां दिशि यमो महाराजः प्रस्थाने प्रस्थितं वेष तदेव आहारमाहरति । ततः खलु स शिवो राजर्षिः तृतीयं षष्ठक्षपणम् उपसंपद्य विहरति, ततःखलु स शिवो राजर्षिः, शेषं तदेव नवरं पश्चिमायां दिशि वरुणो महाराजः प्रस्थाने पस्थितं शेषं तदेव यावत्-आहारमाहरति । ततःखलु स शिवो राजर्षिः चतुर्थ षष्ठक्षपणपारणके, एवं तदेव, नवरम् उत्तरदिशं प्रोक्षति, उत्तरस्यां दिशि वैश्रमणो महाराजः प्रस्थाने प्रस्थितम् अभिरक्षतु शिवम् , शेषं तदेव यावत् , ततःपश्चात् आत्मना आहारमाहरति ॥ २॥ શ્રી ભગવતી સૂત્ર : ૯
SR No.006323
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages760
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy