SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे काकन्दकाः त्रयस्त्रिंशत् सहायाः गृहपतयः श्रमणोपासकाः चमरस्य असुरेन्द्रस्य अमुरकुमारराजस्य त्रायस्त्रिंशकदेवतया उपपन्नाः, तत्पभृति च खलु भदन्त ! एव मुच्यतेचमरस्य असुरेन्द्रस्य असुरकुमारराजस्य त्रायस्त्रिंशका देवाः त्रयस्त्रिंशत् सहायाः?' ततः खलु भगवान् गौतमः श्यामहस्तिना अनगारेण एवमुक्तः सन् शङ्कितः, काडिक्षतः, विचिकित्सितः उत्थया उत्तिष्ठते उत्थाय श्यामहस्तिना अनगारेण सार्द्धम् यत्रैव श्रमणो भगवान महावीरस्तत्रैव उपागच्छति, उपआगत्य श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एवमवादीत्-सन्ति खलु भदन्त ! चमरस्य अमरेन्द्रस्य असुरकुमारराजस्य त्रायस्त्रिंशका देवाः त्रयस्त्रिंशत् सहायाः ? हन्त, सन्ति, तत् केनार्थेन भदन्त ! एवमुच्यते ? एवं तदेव सर्व भणितव्यम् , यावत् तत्मभृति च खलु एवमुच्यते चमरस्य असुरेन्द्रस्य असुरकुमारराजस्य त्रायस्त्रिंशका देवाः त्रयस्त्रिंशत् सहायाः ? नायमर्थः समर्थः, गौतम ! चमरस्य खलु असुरेन्द्रस्य असुरकुमारराजस्य त्रायस्त्रिंशकानां देवानाम् शाश्वतं नामधेयं प्रज्ञप्तम् , यत्न कदाचित् नासीत् न कदापि न भवति, न कदापि न भविष्यति, यावत् नित्यम् अव्युच्छित्तिनयार्थतया अन्ये च्यवन्ति, अन्ये उपपधन्ते। सन्ति खलु भदन्त ! बले वैरोचनेन्द्रस्य वैरोचन राजस्य त्रायस्त्रिंशकादेवाः त्रयस्त्रिंशत् सहायाः? हन्त !, सन्ति, तत् केनार्थेन भदन्त ! एवमुच्यते-बलेः वैरोचनेन्द्रस्य यावत् त्रयस्त्रिंशकाः देवाः त्रयस्त्रिंशत् सहायाः? एवं खलु गौतम ! तस्मिन् काले तस्मिन् समये इहैव जम्बूद्वीपे द्वीपे भारते वर्षे विभेलो नाम सनिवेशोऽभवत्, वर्णकः, तत्र खलु विभेले सन्निवेशे यथा चमरस्य यावत् उपपन्नाः ? यत् प्रभृतिच खलु भदन्त ! ते विभेलगाः त्रयस्त्रिंशत्सहायाः गृहपतयः श्रमणोपासकाः बलेः वैरोचनेन्द्रस्य वैरोचनराजस्य प्रायस्त्रिंशकाः देवाः शेष तदेव यावत् नित्यम् अव्युच्छित्तिनयार्थतया अन्ये च्यवन्ति, अन्ये उपपद्यन्ते। सन्ति खलु भदन्त ! धरणस्य नागकुमारेन्द्रस्य नागकुमारराजस्य त्रायस्त्रिंशका देवाः त्रयस्त्रिंशत् सहायाः? हन्त, सन्ति, तत् केनार्थेन यावत् त्रायस्त्रिंशका देवाः त्रयस्त्रिंशत् सहायाः ? गौतम ! धरणस्य नागकुमारेन्द्रस्य नागकुमारराजस्य त्रायस्त्रिंशकानां देवानां शाश्वतं नामधेयं प्रज्ञप्तम् , यत् न कदापि नासीत् , यावत् अन्ये च्यवन्ति, अन्ये उपपद्यन्ते, एवं भूतानन्दस्यापि एवं यावत् महाघोषस्य । सन्ति खलु भदन्त ! शक्रस्य देवेन्द्रस्य देवराजस्य पृच्छा, हन्त, सन्ति, तत्केनार्थेन यावत् वायत्रिंशकादेवाः त्रयस्त्रिंशत् सहायाः ? एवं खलु गौतम ! तस्मिन् काले, तस्मिन् समये, इहैव जम्बूद्वीपे द्वीपे भारते वर्षे पालाशको नाम सन्निवेशोऽभवत्, वर्णकः, तत्र खलु पालाश के सन्निवेशे त्रयस्त्रिंशत् सहायाः गाथापतयः श्रमणोपासकाः શ્રી ભગવતી સૂત્ર : ૯
SR No.006323
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages760
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy