________________
प्रमैयचन्द्रिका टीका श०९उ०३३सू०१० जमालेर्दीक्षानिरूपणम् ५२३ यावत् पतिश्रुत्य क्षिप्रमेव सदृशं सदृशा त्वचं यावत् शब्दयन्ति । ततःखलु ते कौटुम्बिकपुरुषाः जमालेः क्षत्रियकुमारस्य पित्रा कौटुम्बिकपुरुषैः शब्दायिताः सन्तः हृष्टतुष्टाः स्नाताः कृतबलिकर्माणः कृतकौतुकमङ्गलप्रायश्चित्ताः एकाभरण वसनगृहीतनिर्योगा यत्रैव जमालेः क्षत्रियकुमारस्य पिता तत्रैव उपागच्छन्ति । उपागस्य करतल यावत् वर्द्धयित्वा एवम् अवादिषुः-संदिशन्तु खल देवानुप्रियाः। यत् अस्माभिः करणीयम् । ततःखलु तस्य जमालेः क्षत्रियकुमारस्य पिता तत् कौटुम्बिकवरतरुणसहस्रमपि एवम् अवादी-यूयं खलु देवानुप्रियाः! स्नाता: कृतबलिकर्माणः यावत् गृहीतनिर्योगाः जमाले क्षत्रिय कुमारस्य शिविका परिवहत । ततःखल ते कौटुम्बिकपुरुषाः जमालेः क्षत्रियकुमारस्य यावत् पतिश्रुत्य स्नाताः यावत् गृहीतनिर्योगाः जमालेः क्षत्रियकुमारस्य शिबिकां परिवहन्ति । ततःखलु तम्य जमालेः क्षत्रियकुमारस्य पुरुषसहस्रवाहिनीं शिबिकाम् आरूढस्य सतस्तत्पथमतया इमानि अष्टाऽष्टमङ्गलकानि पुरतो यथानुपूर्व्या संपस्थितानि, तद्यथा-स्वस्तिकम् १, श्रीवत्सः २, यावत् दपेणम् ८। तदनन्तरंच खलु पूर्णकलशभृङ्गारम् यथा औपपातिके यावत् गगनतलमनुलिखन्ती पुरतो यथानुपूर्व्या संप्रस्थिता, एवं यथा औपपातिके यथैव भणतव्यम्, यावत् आलोकं वा कुर्वन्तो जयजयशब्दं च प्रयुञ्जानाः पुरतो यथाऽनुपूर्व्या संपस्थिताः तदननन्तरं च खलु अष्टशतं गजानाम् , अष्टशतं तुरगाणाम् , अष्टशतं रथानाम् , तदन्तरं च खलु असि, शक्ति, कुन्त, तोमरशूललकुट भिन्दिपालधनुःपाणिसज्जं बहुकं पदात्यनीकं पुरतः संपस्थितम्, तदनन्तरं च खलु बहवः उग्राः भोगाः यथा औप. पातिके यावत् महापुरुषवागुरापरिक्षिप्ताः जमालेः क्षत्रियस्य पुरतश्च मार्गतश्च पार्श्वतश्च यथानुपूर्ध्या संपस्थिताः । तदनन्तरं च खलु बहवो राजेश्वरतलवरयावत् सार्थवाहप्रभृतयः पुरतः संपस्थिताः ततःखलु तस्य जमालेः क्षत्रियकुमा. रस्य पिता स्नातः कृतवलिकर्मा यावत् विभूपितो हस्तिस्कन्धवरगतः सकोरण्टमाल्यदाम्ना छोण ध्रियमाणेन *वेतवरचामराभ्याम् उधूयमानः उधूयमानो हयगजरथप्रवरयोधकलितया चतुङ्गिण्या सेनया साढेम् संपरितः महता भटचटकर यावत् परिक्षिप्तो जमालेः क्षत्रियकुमारस्य पृष्ठतः पृष्ठतोऽनुगच्छति । ततःखल तस्य जनालेः क्षत्रियकुमारस्य पुरतो महान्तः अश्वाः अश्ववरा: उभयोः पार्श्व नागाः नागवराः पृष्ठतो रथाः रथसंगेल्ली । ततःखलु स जमालिः क्षत्रियकुमारः अभ्युद्गतभृङ्गारः परिगृहीततालवन्तः उच्छ्रिततालवन्तः उच्छ्रितश्वेतच्छत्रः प्रवीजित वेतचामर बालव्यजनिकः सर्वद्धर्था यावत् नादितरवेण । क्षत्रिय कुण्डग्रामस्य नगरस्य मध्यमध्येन यत्रैव ब्राह्मणकुण्डग्राम नगरं, यत्रैव बहुशालकं चैत्यम्, यत्रैव श्रमणो भगवान् महावीरस्तत्रैव प्राधारयद् गमनाय ॥सू०१०॥
શ્રી ભગવતી સૂત્ર: ૮