________________
५२२
भगवतीसूत्रे अनुलिम्यतः अनुलिप्य नासानिःश्वासातबाह्यम् चक्षुर्हरम् वर्णस्पर्शयुक्तम् , हय लालापेलवातिरेकम् धवलं कनकखचितान्तकर्ममहार्हम् हंसलक्षण पटशाटकं परिधापयतः परिधाप्य हारं पिनह्यतः, हारं पिना अर्थहारं पिनह्यतः, अर्धहारं पिना एवं यथा सूर्याभस्य अलङ्कारस्तथैव यावत् चित्ररत्नसंकटोत्कटं मुकुटं पिनह्यतः किं बहुना ? ग्रन्थिमबेष्टिमपूरिमसंघातिमेन चतुर्विधेन माल्येन कल्पवृक्षकमिव अलङ्कृतविभूषितं कुरुतः । ततःखलु तस्य जमालेः क्षत्रियकुमारस्य पिता कौटुम्बिकपुरुषान् शब्दयति, शब्दयिन्वा एवम् अबादीत्-क्षिपमेव भो देवानुप्रियाः । अनेकस्तम्भशतसन्निविष्टाम् लीलास्थितशालभञ्जिकां यथा राजप्रश्नीये विमानं वर्णकः यावत् मणिरत्नघण्टिकाजालपरिक्षिप्तं पुरुषसहस्रबाह्याम् शिविकाम् उपस्थापयत, उपास्थाप्य मम एतामाज्ञप्ति प्रत्यर्पयत । ततःखल ते कौटुम्बिकपुरुषाः यावत् प्रत्यर्पयन्ति । ततःखलु स जमालेः क्षत्रियकुमारः केशालङ्कारेण बस्त्रालंकारेण माल्यालङ्कारेण आभरणालङ्कारेण चतुर्विधेन अलकारेण अलङ्कारितः सन् प्रतिपूर्णालङ्कारः सिंहासनात् अभ्युत्तिष्ठत्ति, अभ्युत्थाय शिविकाम् अनुपदक्षिणीकुर्वन् शिविकामारोहति । शिविकामारुह्य सिंहासनवरे पौरत्स्याभिमुखः सन्निषण्णः । ततःखल तस्य जमालेः क्षत्रियकुमारस्य माता स्माता कृतबलि यावत् शरीरा सलक्षणं पटशाटकं गृहीत्वा शिविकाम् अनुमदक्षिणीकुर्वती शिविकामारोहति, शिविकामारुह्य जमालेः क्षत्रियकुमारस्य पृष्ठतः एका वरतरुणी शङ्गारागारचारुवेषा संगतगति यावत् रूपयौवनविलासकलिता सुन्दरस्तन० हिमरजतकुमुदकुन्देन्दुप्रकाशं सकोरण्टमाल्यदामधवलम् आतपत्रं गृहीत्वा सलीलम् उपरि धारयन्ती धारयन्ती तिष्ठति । ततःखलु तस्य जमालेः उभयतः पार्श्वे द्वे वरतरुण्यौ शृङ्गारागारचारु यावत् कलिते नानामणिकनकरत्न. विमलमहातपनीयोज्ज्वलविचित्रदण्डे दीप्यमाने शङ्खाङ्ककुन्ददकरजोऽमृतमथितफेनपुञ्जसंनिकाशे धवले चामरे गृहीत्वा सलीलं वीक्षमाणे वीक्षमाणे तिष्ठति । ततःखलु तस्य जमालेः क्षत्रियकुमारस्य उत्तरपौरस्त्ये एका वरतरुणी शृङ्गारागार यावत् कलिता श्वेतरजतमयं विमलसलिलपूर्ण मत्तगजमुखाकृतिसमानं भृङ्गारं गृहीत्वा तिष्ठति । ततःखलु तस्य जमालेः क्षत्रियकुमारस्य दक्षिणपौरस्त्ये एका वरतरुणी रागारागार यावत् कलिता चित्रकनकदण्डं तालवृन्तं गृहीत्वा तिष्ठति । ततःखलु तस्य जमालेः क्षत्रियकुमारस्य पिता कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवम् अबादीत्-क्षिपमेव भो देवानुपियाः ! सदृशं सहकत्वचं सदृशवयः सदृशलावण्यरूपयौवनगुणोपेतम् एकाभरणवसनगृहीत. निर्योगम् कौटुम्बिकवरतरुणसहस्रं शब्दयत । ततः खलु ते कौटुम्बिकपुरुषाः
શ્રી ભગવતી સૂત્ર : ૮