________________
४७६
स्थानाङ्गसूत्रे छाया - ततः खलु तं जमालि क्षत्रियकुमारम् अम्बतातौ यदा ना शक्नुत:-विषयानुलोमाभि बहुभिराख्यापनाभिश्च, प्रज्ञापनाभिश्च, संज्ञापनाभिश्च, विज्ञापनाभिश्च, आख्यातुं वा, प्रज्ञापयितुं वा, संज्ञापयितुं वा, विज्ञापयितुं वा, तदा विष. यप्रतिकुलाभिः संयमभयोवेजनकरीभिः प्रज्ञापनाभिः प्रज्ञापयन्तौ एवमादिष्टाम् एवं खलु जात ! निन्थं प्रवचनं सत्यम् अनुत्तरम् केवलं यथा आवश्यके यावत् सर्वदुःखानामन्तं कुर्वन्ति, अहिरिव एकान्तदृष्टिकम् , क्षुरइत्र एकान्तधारम् , लोहमया यवाः चर्वयितव्याः, वालुका काल इव निःस्वादम्, गङ्गेव महानदी पतिस्रोतो गमनतया, महासमुद्र इव भुनाभ्यां दुस्तरः, तीक्ष्णं क्रमितव्यम् , गुरुकं लम्बयितव्यम् असिधारकं व्रतम् चरितव्यम् , नो खलुकल्पते जात! श्रमणानां निर्ग्रन्थानाम् आधार्मिकमिति बा, औदेशिकमिति वा, मिश्रजातमितिवा, अध्यवपूरकमिति वा, पूतिकृतमिति वा, क्रीतमितिवा, मामित्य मिति वा, आच्छेयमिति वा, अनिःसृष्टमितिवा, अभ्याहृतमिति वा, कान्तार भक्तमितिवा, दुर्भिक्ष भक्तमिति वा, ग्लानभक्तमितिवा, वादलिका भक्तमितिवा पापूर्णकभक्तमिति वा, शय्यातरपिण्डमिति वा, राजपिण्ड मितिवा, मूलक भोजनमितिवा, कन्दभोजनमितिवा, फलभोजनमितिवा, बीजभो ननमितिवा, हरितभोजनमितिवा, भोक्तुं वा, पातुं वा, त्वं च खलु जात ! सुख समु. चितः, नो चैव खलु दुःखसमुचितः नालं शीतं, नालमुष्णम् , नालंक्षुद् नालं पिपासम् , नालं चौरान् , नालं व्यालान् , नालं दंशान् , नालं मशकान् , नालं वातिकपैत्तिक लैष्मकसभिपातान् विविधान् रोगातङ्कान् , परिपहोपसर्गान् उदीर्णान् अधिसोडुम्, तत् नो खलु जात ! वयम् इच्छामस्त व क्षणमपि विप्रयोगम्, तत् आस्त्र तावत् जात ! यावत् तावत् वयं जीवामः ततः पश्चात् अस्मासु यावत् प्रत्र जिष्यसि । ततः खलु स जमालिः क्षत्रियकुमारः अम्बापितरौ एवम् अवादीततथापि खलु तत् अम्बतातौ ! यत् खलु यूयं माम् एवं वदथ, एवं खल जात ! निम्रन्थं प्रवचनं सत्यम् अनुत्तरं केवलम् तदेव यावत् प्रवजिष्यसि, एवं खलु अम्बतातौं ! निर्ग्रन्थप्रवचनं क्लीवानां कातराणाम् , कापुरुषाणाम् , इहलोकपतियद्धानां परलोकाराङ्मुखानां विषयवृष्णि काणाम् दुरनुचरम् प्राकृतजनस्य धीरस्य निश्चितस्य व्यवसितस्य नो खलु अत्र किञ्चिदपि दुष्करं करणतया, तत् इच्छामि खलु अम्बतातौ! युष्माभिरभ्यनुज्ञातः सन् श्रमणस्य भगवतो महावीरस्य यावत् प्रवजितुम् । ततःखलु जमालिं क्षत्रियकुमारम् अम्बापित्तरौ यदा नो शक्नुवन्तः विषयानुलोनामिश्च विषयपतिकूलाभिश्च बहोभिश्च आख्यापनाभिश्च प्रज्ञापनाभिश्व, संज्ञापनामिश्च, विज्ञापनाभिश्च आख्यापयितुं वा यावत् विज्ञापयितुं वा तदा अकामकमेव जमालेः क्षत्रियकुमारस्य निष्क्रमणम् अन्वमन्येताम् ॥ मू० ८ ॥
શ્રી ભગવતી સૂત્ર: ૮