SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३६० भगपतीसूत्रे स ऋषभदत्तो ब्राह्मगः कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवमवादी क्षिपमेव भो देवानुप्रियाः ! लघुकरणयुक्त-यौगिक-समखुरवालिधानसमलिखित शृङ्गकाभ्यां जाम्बूनदमयकलापयुक्तपतिविशिष्टकाभ्यां रजतमयघण्टासूत्र रज्जुकप्रवरकाञ्चननस्तपग्रहावगृहीतकाभ्यां नीलोत्पलकृतापीडकाभ्यां प्रवरगोयुवभ्यां नानामणिरत्नघटिकाजालपरिगतं सुजातयुगयोक्त्ररज्जुकायुगप्रशस्तसुविरचितनिर्मितम् , प्रवरलक्षणोपेतं धार्मिकं यानप्रवरं युक्तमेव उपस्थापयत उपस्थाप्य मम एतामाज्ञप्ति प्रत्यर्पयत ' ततः खलु ते कौटुम्बिकपुरुषाः ऋषभदत्तेन ब्राह्मणेन एवमुक्ताः सन्तो हृष्ट-यावद् हृदयाः करतलयावत्कृत्वा एवम् स्वामिन् ! तथेति आशया विनयेन वचनं प्रत्तिशृण्वन्ति, प्रतिश्रुत्व क्षिप्रमेव लघुकरणयुक्त यावत् धार्मिकं यानप्रवरं युक्तमेव उपस्थाप्य यावत् तामाज्ञप्तिका प्रत्यर्पयन्ति ततः खलु स ऋषभदत्तो ब्राह्मणः स्नातो यावत् अल्पमहा(भरणाल कृतशरीरः स्वस्मात् गृहात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य यत्रैव बाह्या उपस्थानशाला, यत्रैव धार्मिकं यानप्रवरं तत्रैव उपागच्छति, उपागत्य धार्मिकं यान परम् दुरूदः, ततः खलु सा देवानंदा ब्राह्मणी अतः अन्तःपुरे स्नाता, कृतबलिकर्मा, कौतुकमङ्ग मायश्चित्ता, किश्च वरपादप्राप्तनूपुरमणिमेखलाहारविरचितोचितकटकखुड्डगैकावलीकण्ठमूत्रो स्थग्रेवेयकश्रोणिसूत्रकन.नामणिरत्नभूषणविराजिताङगी चीनांशुकवस्त्रपचरपरिहिता दुकूलसुकुमारोत्तरीया सर्वर्तुकसुरभिकुसुमातशिरोजा वरचन्दनचर्षिता, वराभरणभूषिताङ्गी कालागुरुधूपधूपिता श्रीसमानवेषा यावत् अल्पमहाभिरणालङ्कृतशरीरा बहीभिः कुब्जामिचिलातिकाभिमनिकाभिः, वडभिकाभिः, बर्बरिकाभिः, इसिनिकाभिः यौनिकाभिः, चारुणिकाभिः, पल्हविकाभिः, ल्हासिकाभिः लकु. शिकामिः, आरबीभिः, द्राविडीभिः, सिंहलीभिः पुलिन्दीमिः, पुष्कलीभिः मुरुण्डीभिः, शबरीभिः, पारसीभिः, नानादेशीयाभिः विदेशवेषपरिमण्डिताभिः स्वदेश नेपथ्यगृहीतवेषाभिः इजितचिन्तितमार्थित विज्ञापिकाभिः कुशलाभिः विनीताभिश्च चेटिकाचक्रवाळवषधरस्थविरकञ्चुकिमहत्तरकन्दपरिक्षिप्ता अन्तःपुरात निर्गच्छति, निर्गत्य यत्रैव बागा उपस्थानशाला, यत्रैव धार्मिकं यानप्रवरं तत्रैव उपागच्छति, उपागत्य यावत् धार्मिकं यानप्रवरं दरूढा । ततः खलु स ऋषभदत्तो ब्राह्मणो देवानन्दया ब्राह्मण्या साद्धम् धार्मिकं यानप्रवरम दरूढः सन निजकपरिवारसंपरितो ब्राह्मणकुण्डग्रामस्य नगरस्य मध्यमध्येन निर्गच्छति, निर्गत्य यत्रैव बहुशालकं चैत्यम्, तत्रैव उपागच्छति, उपागत्य छत्रादिकान् तीर्थंकरातिशयान् पश्यति, दृष्ट्वा धार्मिकं यानप्रवरं स्थापयति, श्रीभगवती. सूत्र: ८
SR No.006322
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages685
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy