________________
भगवतीसूत्रे 'आहारे' आहारः ‘पन्नत्ते' प्रज्ञप्तः 'तं जहा' तद्यथा-'लोमाहारे' रोमाहारः, यो कालादिषु बहुमूत्रतया ज्ञायते सः 'पक्खेवाहारेय' प्रक्षेपाहारश्च; कावलिकः, यः कवलैर्मुखे प्रक्षिप्यते सः, 'जे पोग्गले' यान् पुद्गलान् ‘लोमाहारत्ताए' रोमाहारतया 'गिण्डंति' गृह्णन्ति 'ते सव्वे' तान् सर्वान् 'अपरिसेसिए' अपरिशेषितान् अनवशिष्टान् सम्पूर्णानित्यर्थः । 'आहारेति' आहारन्ति 'जे पोग्गले' यान् पुद्गलान् 'पक्खेवाहारत्ताए' प्रक्षेपाहारतया-कवलाहारतया 'गिण्हंति' गृह्णन्ति 'तेसि णं पोग्गलाणं' तेषां खलु पुद्गलानाम् 'असंखेज्जइभागं' असंख्येयभागं 'आहारेंति' आहरन्ति, तत्र 'अणेगाइं च णं' अनेकानि च खलु 'भागसहस्साई भागसहस्राणितस्याहारस्यानेकसहस्रभागा इत्यर्थः, 'अणासाइज्जमाणाई' अनास्वाद्यमानानिरसनेन्द्रियेण स्वादविषयमप्राप्तान्येव 'अफासाइज्जमाणाई' अस्पृश्यमानानि-स्पर्शन्द्रियेण स्पर्शविषयमप्राप्तान्येव 'विद्धंसं' विध्वंसं-विनाशं आगच्छन्ति-प्राप्नुवन्ति । अस्मिन्नाहारे अनेक सहस्रसंख्यकाः पुद्गलाः आस्वादविषयं स्पर्शविषयंचाप्राप्ताएव स्थौल्य सौक्ष्म्याभ्यां केचिद्वहिः केचिदन्तश्च विनश्यन्तीति भावः । पुनःपृच्छति 'एएसि णं भंते' एतेषां खलु भदन्त ! बहिरन्तश्च विनाशमापन्नानां 'पोग्गलाणं' पुद्गलानां, कीदृशानामित्याह -'अणासइज्जमाणाणं' अनास्वाद्यमानानां 'अफासाइज्जमाणाणं य' अस्पृश्यमानानां च मध्ये 'कयरे' कतरे कियन्तः पुद्गलाः 'कयरेहितो' कतरेभ्यः-कियद्भयः पुद्गलेभ्यः 'अप्पा वा' अल्पा वा 'बहुया वा' बहुका वा, 'तुल्ला वा' तुल्या वा 'विसेसाहिया वा' विशेषाधिका वा ? भगवानाह–'गोयमा' हे गौतम ! 'सव्वत्थो वा' सर्वस्तोकाः सर्वाल्पाः 'पोग्गला' पुद्गलाः 'अणासाइज्जमाणा' अनास्वाद्यमानाः ये केवलं रसनेन्द्रियविपयास्ते स्तोकाः, अस्पृश्यमानानां पुद्गलानामनन्तभागवर्तिन इत्यर्थः। 'अफासाइज्जमाणा' अस्पृश्यमानाः केवलं स्पर्शन्द्रियविषयाः पुद्गलाः अनन्तगुणाः आस्वाद्यमानेभ्यः रसनेन्द्रियविषयेभ्यः पुद्गलेभ्यः सकाशादनन्तगुणाधिका इत्यर्थः। पुनःपृच्छति- बेइंदियाणं भंते' द्वीन्द्रियाः खलु भदन्त ! 'जे पोग्गले' यान् पुद्गलान् ‘आहारत्ताए' आहारतया 'गिण्हंति' गृहन्ति 'तेणं' ते खलु पुद्गलाः 'तेसिं' तेषां द्वीन्द्रियाणां 'कीसत्ताए' कीदृशतया केनाकारेण 'भुज्जो भुज्जो' भूयो भूयः 'परिणमन्ति ? उत्तरमाह'गोयमा' हे गौतम ! 'जिभिदिय फासिंदिय वेमायत्ताए' जिह्वेन्द्रिय स्पर्शेन्द्रिय विमात्रतया कदाचिन्जिवेन्द्रियतया कदाचित्स्पर्शन्द्रियतया 'भुज्जो भुज्जो' भूयो. भूयः परिणमन्ति पुनः पृच्छति-'बेइंदियाणं भंते' द्वीन्द्रियाणां भदन्त ! 'पुव्वाहारिया' पूर्वाहृताः-पूर्वमाहारतया गृहीताः 'पोग्गला' पुद्गलाः 'परिणया' परिणताः परिणाम प्राप्ताः किम् ? उत्तरमाह-'तहेव ' तथैव नैरयिकवक्तव्यतावदेव सर्व विज्ञे
શ્રી ભગવતી સૂત્રઃ ૧