________________
समवायाङ्गसूत्रे
3
बोधकाः, मूले स्त्रीत्वं प्राकृतत्वात्, 'बहुविहप्पगारा' बहुविधप्रकाराः - बहुविधः - अनेकविधः प्रकारो भेदो येषां ने तथोक्ताः, 'सीसहियत्था' शिष्य हितार्था:शिष्यस्य हिताः = हितकारका अर्था यत्र ते तथा, 'य' च= पुनः 'गुणमहत्था ' गुणमहार्थाः - गुण एव महान् अर्थः = प्रयोजनं येषां ते तयोक्ताः, गुणदायका इति भावः, एतादृशाः 'सुयत्थ' श्रुतार्थाः = भगवत्सकाशाद्गणधरेण श्रुतार्थास्ते श्रुतार्थाः, श्रुतविषया अर्थाः श्रुतार्थाः - - वाच्यार्थविशेषाः, यद्वाश्रुतं = सूत्रम्, अर्था:= नियुक्त्यादयः श्रुतं च अर्थाच श्रुतार्था: । 'वियाहि'ज्जति' व्याख्यायन्ते इति पूर्वेणान्वयः कीदृशानां षट्त्रिंशत्सहस्राणां व्याकरणानां श्रुतार्था व्याख्यायन्ते ? इत्याह- 'नाणाविह सुरनारिंदरायरिसिविविहसंसइय पुच्छियाणं' नानाविधसुरनरेन्द्रराजर्षि विविधसंशयित पृष्टानाम् 'नाणाविह ' नानाविधाः 'सुर' सुराः 'नरिंद' नरेन्द्राः 'रायरिसि' राजर्षयः सुरादिपदत्रयस्य द्वन्द्वसमासः ततो 'नानाविध' इत्यनेन सह कर्मधारयः । ते च ते विविध संसइय' विविध संशयिता:=अनेकविधसशययुक्ताः तैः पृष्टाः स्वसशयापनोदनार्थ प्रश्नविषयीकृतास्तेषाम् पुनः जिणेणं बित्थरेण भासियाणं' जिनेन विस्तरेण भाषितानाम्भगवता जिनेन तेषां संशयविच्छेदार्थ सविस्तृत प्रतिपादितानाम्, पुनः कि भूतानाम् ? ' दव्यगुणखेत्तकालपज्जवप देसपरिणामजहत्थियभाव - अणुगमनिक खेवणयप्पमाणसुनिउणोवक्कम विविष्कारपगडपया सियाणं' द्रव्यगुणक्षेत्रकालपर्यंवप्रदे
७२८
परिणामयथास्ति भावानुगम निक्षेपनयप्रमाणसुनिपुणोपक्रम विविध प्रकार प्रकट प्रका शितानाम् - तत्र - 'दव्व' द्रव्याणि-धर्मास्तिकायादीनि, 'गुण' गुणाःज्ञानादयः, 'खेत्त' क्षेत्रम् - आकाशम्, 'काल' कालः = समयादिः, 'पज्जव' पर्यवाः - स्वपरभेदभिन्ना धर्माः अथवा नवपुराणादयः कालकृता अवस्थाः, 'पदेस' प्रदेशा:निरंशावयवाः, 'परिणाम' परिणामाः- अवस्थातोऽवस्थान्तरगमनानि, 'जहत्थि यभाव' यथास्तिकभावम् - आस्तिक भावः - आस्तिकत्वं तमनतिक्रम्य यथास्तिक भावम्, 'अणुगम' अनुगमः - संहिता दिव्याख्यानप्रकारलक्षणः, अथवा उद्देश निर्देशनिर्गमनादिद्वारसमूहात्मकः, 'निक्खेव' निक्षेपः - नामस्थापनाद्रव्य भावस्वरूपः 'जय' नयाः - नैगमादयः सप्त, अथवा द्रव्यास्तिकपर्यायास्तिकभेदात्, ज्ञाननय क्रियानयभेदाद्, निश्चयनयव्यवहारनयभेदाद् वा द्वौ नयौ, ते तावेव वा, 'पमाणं' प्रमाणम् - वस्तुतत्वपरिच्छेदलक्षणं प्रत्यक्षादिकम् 'सुनिउण' सुनिपुण:- सुसूक्ष्मः सुनिश्चितगुणो वा 'उबकम' उपक्रमाः - अनुपूर्व्यादिः, एषामितरेतरयोगद्वन्द्वः, ते च ते 'विविहप्पकार' विविधप्रकाराश्च, ते 'पगड' प्रकटाः- सुस्पष्टा: 'पयासिय' प्रकाशिता यैस्ते तथाभूतास्तेषां तथोक्तानाम्, तथा 'लोगालोगपयासियाणं' लोकाको कमकाशितानाम्-लोकालोको प्रकाशितौ यैस्ते तेषां तथोक्तानाम्, पुनः
શ્રી સમવાયાંગ સૂત્ર
·
-