________________
सुघाटीका स्था०५ उ०२ सू०११ व्यवहारस्वरूपनिरूपणम् अवधारयत । स आगमव्यवहारः प्रत्यक्षपरोक्षभेदेन द्विविधो ज्ञातव्यः ॥१॥ तत्र प्रत्यक्षः पुनरिन्द्रियज मोइन्द्रियजभेदेन द्विविधो वोध्यः । इन्द्रियन प्रत्यक्षस्तत्र पश्चेन्द्रियार्थविषयकत्वेन पञ्चविधः ।२। नोइन्द्रियजन्यः मत्यक्षस्तु संक्षेपतः त्रिविधो भवति । त्रैविध्यं तस्य केवलज्ञानमनःपर्यवज्ञानावधिज्ञानभेदाद् योध्यम् ॥३॥ यस्य मुनेः परोक्षोऽपि आगमः वस्तु स्वरूपस्य सम्पग निर्णायकत्वात् प्रत्यक्षागमसदृशो भवति । चन्द्रमुखीव-मुखे चन्द्रत्वापचर्य यथा रमणी चन्द्रमुखीत्यभिधीयते तथैव उपचारात्-स मुनिरपि आगमव्यवहारवान् भवति ॥४॥ अमुं पारोक्षं व्यवहारं श्रुतधरा आगमतो व्यवहरन्ति ते श्रुनधरा के ? इत्याह-ते हि परयादिविद्रावणे गन्धहस्तिसदृशाः चतुर्दशपूर्वधरा दशपूर्वधरा नयपूर्वधराध बोध्याः ॥५॥ सम्पति आगमव्यवहारिणः प्रशंसापरां गाथामाह-'जे जहमोल्लं' इत्यादि । यद् रत्नं यथामूल्यं भवति तत् रत्नवाणि नो निपुणं यथा स्यात्तथा जानाति, इति-अमुना प्रकारेणैव प्रत्यक्षी प्रत्यक्षज्ञानी अपि जानाति यत् , योऽतीचारवान् येन प्रायश्चित्तेन दत्तेन शुद्धयति, स तथैव अतीवारवते प्रायश्चित्तमपि ददाति॥६॥ इत्थं यो मुनिः केवलज्ञानेन मनापर्यव ज्ञानेन अवधिज्ञानेन चतुर्दशर्वधरत्वेन दशपूर्वधरत्वेन नवपूर्वधरत्वेन वाऽतीचारविशुद्धये यत् प्रायश्चित्तं ददाति, तत् प्रायश्चितदानम् आगमव्यवहारइत्युच्यते । अथ श्रुतनामक द्वितीयं व्यवहारमाहयो मुनिः कल्पस्य-वृहत्कल्पसूत्रस्य तथा-परमनिपुणस्य-प्रायश्चित्तविधौ स्फुटविचारयुक्तस्य व्यवहारमूत्रस्य च, एवकारोऽप्यर्थकः, तेन निशीथदशाश्रतयोः संग्रहः, निशीथस्य दशाश्रुतस्य च, नियुक्तिम् अर्थतो विजानाति. स मुनिः उपव. हारी अनुज्ञातः कथितः ।७। तम् व्यवहारिणमेव अनुष नन्-अनुवघ्नन् अनुसरन् यो मुनिः अतीचारे सम्प्राप्ते यथोक्तम्-श्रुतोक्तिमनुस्मृत्य व्यवहारविधि प्रायश्चित्तं प्रयुनक्ति ददाति, तस्य मुनेः श्रुतानुसारेण प्रायश्चित्तप्रदानरूप एष व्ययहारो वीतरागैः श्रुतव्यवहारः श्रुतव्यवहार इति नाम्ना प्रज्ञप्तः प्ररूपितः ॥८॥ अथ आज्ञानामकं तृतीयं व्यवहारमाह-यः अपराक्रमा=गमनशक्तिवनितः तपस्वी शोधिकारक समीपे प्रायश्चित्त दातुः समीपे गन्तुं न शक्नोति, शोधिकारकोऽपि देशात्-आश्रितस्थलात् आगन्तुं न शक्नोति ॥९॥ अथ अनन्तरं स तपस्वी तस्य शोधिकारकस्य समीपे शिष्यं गूढार्थपदैः सन्दिश्य प्रस्थापपयतिम्प्रेषयति, कि सन्दिश्य प्रेषयति ? इत्याह-हे आर्य ! देशान्तरगमननष्टचेष्टाः-अशक्त्या देशान्तरगमने नष्टाः चेष्टा येषां तादृशा वयम् सकाशे त्वत्तः शोधिप्रायश्चित्तं कर्तुमिच्छामः, इति ॥१०॥ ततः सन्देशवाहकः शिष्यमुखात् स व्यवहारविधिज्ञः शोधिकारकः श्रुतोपदेशेन शास्त्रेण अनुषज्य-सन्देशं यथावद् विचार्य " तस्मै
श्री. स्थानांग सूत्र :०४