SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ - - - स्थानाङ्गसूत्रे ज्ञानेन समुत्पन्नेन पश्यति-प्राचीनां वा प्रतीचीनां वा दक्षिणां या उदीचीनां या अर्वा वा याक्त् सौधर्म कल्पम् । तस्य खलु एवं भवति-अस्ति खलु मम अति. शेषं ज्ञानदर्शनं समुत्पन्न-पश्चदिशि लोकाभिगमः । सन्ति एकके श्रमणा वा माहना वा एवमाहुः-एकदिशि लोकाभिगमः । ये ते एवमाहुः मिथ्या ते एवमाहुः। द्वितीयं विमङ्गज्ञानम् । अथापरं तृतीयं विभङ्गज्ञानम्-यदा खलु तथारूपस्य श्रमणस्य वा माहनस्य या विभङ्गज्ञानं समुत्पद्यते, स खलु तेन विभङ्गज्ञानेन समु. स्पन्नेन पश्यति-प्राणान् अतिपातयमानान् मृषावदतः, अदत्तमाददानान्, मैथुनं प्रतिसेवमानान, परिग्रहं परिगृह्णतो, रात्रिभोजनं सुञ्जानान् वा, पापं खलु कर्म क्रियमाणं नो पश्यति । तस्य खलु एवं भवति-अस्ति खलु मम अतिशेष ज्ञानदर्शनं समुत्पन्नम्-क्रियावरणो जीवः । सन्ति एकके श्रमणा वा माहना वा एवं. माहुः-नो क्रियावरणो जीवः । ये ते एवमाहुः, मिथ्या ते एवमाहुः । तृतीयं विभाज्ञानम् ३। अथापरं चतुर्थे विभङ्गज्ञानम्-यदा खलु तथारूपस्य श्रमणस्य वा माहनस्य वा यावत् समुत्पद्यते, स खलु तेन विभङ्गज्ञानेन समुत्पन्नेन देवा. नेव पश्यति बाह्याभ्यन्तरकान् पुद्गलान् पर्यादाय पृथक् एकत्वं नानात्वं वा स्फोरयित्वा स्फोटयित्वा विकुर्वित्वा खलु विकुर्वित्वा खलु स्थातुम् । तस्य खलु एवं भवति-अस्ति खलु मम अतिशेषं ज्ञानदर्शनं समुत्पन्नम् , मुदग्रो जीवः । सन्ति एकके श्रमणा वा माहना वा एबमाहुः-अमुदग्रो जीवः । ये एवमाहुः मिथ्या ते एवमाहुः । चतुर्थं विभङ्गज्ञानम् ४ । अथापरं पञ्चमं विभङ्गज्ञानम्यदा खलु तथारूपस्य श्रमणस्य वा यावत् समुत्पद्यते, स खलु तेन विभङ्गज्ञानेन समुत्पन्नेन देवानेव पश्यति, बाह्याभ्यन्तरान् पुद्गलान् अपर्यादाय पृथक् एकत्वं नानात्वं यावद् विकुर्वित्वा खलु २ स्थातुम् । तस्य खलु एवं भवति-अस्ति यावत् समुत्पन्नम् अमुदग्रो जीवः। सन्ति एकके श्रमणा वा माहना वा एवमाहुः मुदग्रो जीवः । ये ते एवमाहुः, मिथ्या ते एवमाहुः। पञ्चमं विभङ्गज्ञानम् ५। अथापरं षष्ठ विभज्ञानम्-यदा खलु तथारूपस्य श्रमणस्य वा माहनस्य वा यावत् समुत्पद्यते, स खलु तेन विभङ्गज्ञानेन समुत्पन्नेन देवानेव पश्यति-बाह्याभ्यन्तरान् पुद्गलान् पर्यादाय वा अपर्यादाय वा पृथक् एकत्वं नानात्वं स्पृष्ष्टा यावत् विकुवित्वा खलु २ स्थातुम् । तस्य खलु एवं भवति-अस्ति मम अतिशेष ज्ञानदर्शनं समुत्पन्नम् , रूपी जीवः । सन्ति एकके श्रमणा वा माहना वा एवमाहुः-अरूपी जीवः । ये ते एवमाहुः, मिथ्या ते एवमाहुः । षष्ठं विभङ्गज्ञानम् ६। अथापरं सप्तम विभङ्गज्ञानम् -यदा खलु तथारूपस्य श्रमणस्य वा माहनस्य वा विभङ्गज्ञानं समु. त्यपद्यते, स खलु तेन विभज्ञानेन समुत्पन्नेन पश्यति-सूक्ष्मेण वायुकायेन स्पृष्टं શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy