SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ११० स्थानङ्गसूत्रे देवलोकेषु दिव्येषु कामभोगेषु मूच्छितो गृद्धः ग्रथितः अध्युपपन्नः, स खलु मानु. ध्यकान् कामभोगान् नो आद्रियते नो परिजानाति, नो अर्थ बध्नाति, नो निदान प्रकरोति, नो स्थिति प्रकल्पं प्रकरोति १ । अधुनोपपन्नो देवो देवलोकेषु दिव्येषु कामभोगेषु मूच्छितो गृद्धो प्रथितः अध्युपपन्नः, तस्य खलु मानुष्यकं प्रेमव्युच्छिन्नं दिव्यं संक्रान्तं भवति २ । अधुनोपपन्नो देवो देवलोकेषु दिव्येषु कामभोगेषु मृच्छितो यावत्-अध्युपपन्नः, तस्य खलु एवं भवति-इदानीं न गच्छामि, मुहूर्त गमिष्यामि, तेन कालेनाल्पायुष्का मनुष्याः कालधर्मेण संयुक्ता भवन्ति ३ । इत्येतैत्रिभिः स्थानैरधुनोपपन्नो देवो देवलोकेषु इच्छति मानुष्यलोकं हव्यमागन्तुं नो चैव खलु शक्नोति हव्यमान्तुम् ॥ १ ॥ त्रिभिः स्थानरधुनोपपन्नो देवो देवलोकेषु इच्छति मानुष्यं लोकं हव्यमागन्तुं शक्नोति हव्यमागन्तुं, तद्यथा-अधुनोपपन्नो देवो देवलोकेषु दिव्येषु कामभोगेषु अमूच्छितः अगृद्ध : अग्रथितः अनध्युपपन्ना, तस्य खल्वेवं भवति-अस्ति खलु मम मानुष्यके भवे आचार्य इति वा, उपाध्याय इति वा, प्रवर्तक इति वा, स्थविर इति वा, गणीति वा, गणधर इति वा, गणावच्छेदक इति वा, येपां प्रभावेण मया इयमेतद्रूपा दिव्या देवद्धिः, दिच्या देवद्युतिः, दिव्यो देवानुभावो लब्धः प्राप्तः अभिसमन्वागतः, तद् गच्छामि खलु तान् भगवतो वन्दे नमस्यामि सत्करोमि संमानयामि, कल्याणं मङ्गलं दैवतं चैत्यं पर्युपासे १, अधुनोपपन्नो देवो देवलोकेषु दिव्येषु कामभोगेषु अमूच्छितो यावत् अनध्युपपन्नः, तस्य खल्वेवं भवति-एष खलु मानुष्य के भवे ज्ञानीति वा तपस्वीति वा अतिदुष्करदुष्करकारकः, तद् गच्छामि तं भगवन्तं वन्दे नमस्यामि यावत् पर्यु। पासे २, अधुनोपपन्नो देवो देवलोकेषु यावत् अनध्युपपन्नः, तस्य खल्वेवं भवति अस्ति खलु मम मानुष्य के भवे मातेति या, पितेति वा भार्येति वा, भ्रातेति वा, भगिनीति वा, पुत्र इति वा दुहितर इति वा स्नुषेति वा, तद् गच्छामि खलु तेषामन्तिकं प्रादुर्भवामि, पश्यन्तु तावत् मे इमामेतद्रूषां दिव्यां देवद्धि दिव्यां देवद्युतिं दिव्यं देवानुभावं लब्धं प्राप्तमभिसमन्वागतम् ३, इत्येतैत्रिभिः स्थानैरधुनोपपन्नो देवो देवलोकेषु इच्छति मानुष्यं लोकं हव्यमागन्तुं, शक्नोति हव्यमागन्तुम् ।२।सू०५१। देवव्यापारों की प्ररूपणा करते हुए सूत्रकार अधुनोपपन्नक देव की प्ररूपणा दो सूत्र से करते हैं-(तीहि ठाणेहिं अहुणोववन्ने देवे) इत्यादि। દેવવ્યાપારોની પ્રરૂપણા ચાલી રહી છે, તેથી હવે સૂત્રકાર અધુને પપન્ન દેવની (તત્કાલ દેવકમાં ઉત્પન્ન થયેલા દેવની) બે સૂત્રો દ્વારા પ્રરૂપણું શ્રી સ્થાનાંગ સૂત્ર : ૦૨
SR No.006310
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages819
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy