SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २९२ सूत्रकृताङ्गसूत्रे छाया -- अथाऽपरो द्वितीयस्य स्थानस्य धर्मपक्षस्य विभङ्गः, एवमाख्यायते, इह खलु प्राच्यां वा ४ सन्त्येकतये मनुष्या भवन्ति तद्यथा - अनारम्भाः अपरिग्रहाः धार्मिकाः धर्मानुगाः धर्मिष्ठाः यावद् धर्मेण चैत्र वृत्तिं कल्पयन्तो विहरन्ति, सुशीलाः सुव्रताः सुप्रत्यानन्दाः सुसाधवः सर्वतः प्राणातिपातात् प्रतिविरताः यावज्जीवनम् यावद् यानि चान्यैः तथाप्रकाराणि सावधानि अबोधिकानि कर्माणि चरमाणपरितापनकराणि क्रियन्ते ततः प्रतिविरताः यावज्जीवनम् । तद्यथा - नाम अनगाराः भगवन्तः ईर्यासमिताः भाषासमिताः एषणासमिताः आदानभाण्डमात्रानिक्षेपणासमिताः उच्चारस्रवण खेळसिंघाणमलप्रतिष्ठापनासमिताः मनःसमिताः बचः समिताः कायसमिताः मनोगुप्ताः वचोगुप्ताः कायगुप्ताः गुप्ताः गुप्तेन्द्रियाः गुप्तब्रह्मचर्याः अक्रोधाः अमानाः अमायाः आलोमाः शान्ता प्रशान्ताः उपशान्ताः परिनिवृत्ताः अनास्रवाः अग्रन्थाः छिन्नशोकाः निरूपलेपाः कांस्यपात्रीव मुक्ततोयाः शङ्ख इव निरञ्जनाः जीव इवामतिहतगतयः गगनतलमिव निरवलम्बना वायुरिवापतिबद्धाः शारदसलिलमिव शुद्धहृदयाः पुष्करपत्रमिव निरूपलेपाः कूर्म इव गुप्तेन्द्रियाः विहग इव विमुक्ताः खङ्गिविषाणमिवैकजाताः भारण्डपक्षीवाममत्ताः कुञ्जरइव शौण्डीराः वृषभ व जावस्थामानः सिंह इव दुर्धर्षाः मन्दर इवामकम्पाः सागरइव गम्भीराः चन्द्र इव सोमलेश्याः सूर्यइव दीप्ततेजसः जात्यकाञ्चनमिव जातरूपाः वसुन्धरा इव सर्वस्पर्शविसहाः सुहुत हुताशन इव तेजसा ज्वलन्तः । नास्ति खलु तेषां भगवतां कुत्रापि प्रतिबन्धो भवति स प्रतिबन्ध चतुर्विधः प्रज्ञप्तः तद्यथा - अण्डजे वा पोत वा अवग्रहे वा प्रग्रहे वा यां यां दिशमिच्छन्ति तां तां दिशमप्रतिबद्धाः शुचीभूता लघुभूताः अल्पग्रन्थाः संयमेन तपसा आत्मानं भावयन्तो विहरन्ति । तेषां च खलु भगवतामियमेतद्रूपा यात्रामात्रावृत्तिरभवत् तद्यथा-चतुर्थभक्तं षष्ठं भक्तम् अष्टमं भक्तं दशमं भक्तं द्वादशं भक्तं चतुर्दशं भक्तम् अर्धमासिकं भक्त मासिकं भक्तं द्वैमासिकं भक्त त्रैमासिकं भक्तं चातुर्मासिकं भक्तं पाश्च मासिकं पाण्मासिकम्, अत उत्तरं च खलु - उत्क्षिप्तचरका ः निक्षिप्तचरका ः उत्क्षिप्त - निक्षिप्तचराकाः अन्तचरका ः प्रान्तचरका ः रूक्षचरकाः समुदानचरकाः संसृष्टचरकाः असंसृष्टचरकाः तज्जातसंसृष्टचरकाः दृष्टलाभिकाः अदृष्टलाभिकाः पृष्टलाभिकाः अपृष्टलाभिकाः मिक्षालाभिका अभिक्षाला भिकाः अज्ञातचरका ः उपनिहितकाः संख्यादचयः परिमितपिण्डिपातिकाः शुद्वैषणाः अन्ताहाराः प्रान्ताहाराः अरसाहाराः विरसाहाराः रूक्षाहारा: तुच्छाहाराः अन्तजीविनः प्रान्तजीविनः आचाम्लिकाः पुरिमर्द्धिका निर्विकतिकाः अमधर्मांसाशिनः नो निकामरसभोजिनः स्थानान्विताः प्रतिमास्थानान्विताः उत्कटा सनिकाः नैषयकाः वीरासनिकाः दण्डायतिकाः लगण्डशायिनः अमावृताः શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy