SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ વર सूत्रकृतास्त्र अग्निकायेन शस्यानि धमति अन्येनापि अग्निकायेन शस्यानि ध्मापयति अग्निकायेन शस्यानि धमन्तमप्यन्यं समनुजानाति इति सः महद्भिः पापैः कर्मभिः आत्मानमुपख्यापयिता भवति । स एकतयः केनाऽप्यादानेन विरुद्धः सन् अथवा खलदानेन अथवा सुरास्थालकेन गाथापतीनां वा गाथापतिपुत्राणां वा उष्ट्राणां वा गवां वा घोटकानां वा गर्दभानां वा स्वयमेव अादीन् कल्यते अन्येनाऽपि कल्पयति कल्पमानमपि अन्यं समनुजानाति इति महद्भिर्यावद् भवति । स एक तयः केनापि आदानेन विरुद्धः सन् अथवा खलदानेन अथवा सुरास्थालकेन गाथा पतीनां वा गाथापतिपुत्राणां वा उष्ट्रशाला वा गोशाला वा घोटकशाला वा गर्दभशाला वा कण्टकशाखाभिः परिविधाय स्वयमेवाग्निकायेन धमति अन्येनाऽपि ध्मापयति धमन्तमपि अन्यं समनुजानानि, इति स जहद्भिर्यावद् भवति । स एकतयः केनाऽपि आदानेन विरुद्धः सन् अथवा खलदानेन अथवा सुरास्थालकेन गाथापतीनां वा गाथापतिपुत्राणां वा कुण्डलं वा मणि वा मौक्तिकं वा स्वयमेव अपहरति अन्येनापि अपहारयति अपहरन्तमपि अन्यं समनुजानाति इति स महद्भिर्यावद् भवति । स एकतयः केनाऽपि आदानेन विरुद्धः सन् अथवा खळदानेन अथवा सुरास्थालकेन श्रमणानां वा माइनानां वा छवर्क वा दण्डकं वा भाण्डकं वा मात्रकं वा यष्टिकां वा वृत्ती वा चेलकं वा पच्छादनपटी वा चर्मकं वा छेदनकं वा चर्मकोशिकां वा स्वयमेव अपहरति यावत् समनुजानाति इति स महनिर्यावद् उपख्यापयिता भवति, स एकतयः नो विमर्षति, तद्यथा गायापतीनां वा गाथापतिपुत्राणां वा स्वयमेवाऽग्निकायेन औषधी धमति यावद् धमन्तमपि अन्यं समनुजानाति इति स महद्भिविद् उपख्यापयिता भवति। स एकतयः नो विमर्पति तद्यथा-गायाफ्तीनां वा गाथापतिपुत्राणां वा उष्ट्राणां वा गवां वा घोटकानां वा गर्दभानां वा स्वयमेव अवयवान् कल्पते अन्येनाऽपि कल्पयति अन्यमपि कल्पमानं समनुजानाति । स एकतयः नो विमर्षति, तद्यथा-गाथापातीनां वा गाथापतिपुत्राणां वा उष्ट्रशाला वा यावद् गर्दभशाला वा कण्टकशाखाभिः परिपिधाय स्वयमेव अग्निकायेन धमति यावत् समनुजानाति । स एकतयः नो विमर्षति, तयथा-गाथापतीनां वा गाथापतिपुत्राणां वा यावद् मौक्तिकं वा स्वय मेवापहरति यावत् समनु नानाति । स एकतयः नो विमर्षति तद्यथा-श्रमणानां वा माहनानां वा छत्रकं वा दण्डकं वा यावच्चर्मच्छेदकं वा स्वयमेव अपहरति यावत् समनुजाति इति स महद्भिर्यावद् उपस्थापयिता भवति । स एकनयः श्रमणं वा माहनं वा दृष्ट्वा नानाविधैः पापकर्मभिरात्मानमुपस्थापयिता भवति अधवा खलु श्री सूत्रांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy