SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १३४ सूत्रकृताङ्गसूत्रे मिथ्यादर्शनशल्पाद इति स महत आदानाद उपशान्तः उपस्थितः प्रतिविरतः भिक्षु । ये इमे त्रमस्थावराः प्राण भवन्ति तान् न स्वयं समारभते नाऽन्यैः समारम्भयति अन्यान् समारभतोऽपि न समनुजानातीति स महत - आदानात् - उपशान्त उपस्थितः प्रतिविरतः स भिक्षुः । ये इमे कामभोगाः सचित्ता वा अवित्ता वा तान् न स्वयं प्रतिगृह्णाति नाऽत्येन प्रतिग्राहयति, अन्यमपि प्रतिगृह्णन्तमपि न समनुजानाति इति स महत आदानात् उपशान्त उपस्थितः पतिविरतः स मिक्षुः । यदपि चेदं साम्परायिकं कर्म क्रियते न तत् स्वयं करोति नान्येन कारयति, अन्यमपि कुर्वन्तं न समनुजानाति इति स महा आदानाद् उपशान्त उपस्थितः प्रतिविरतः स भिक्षुः जानीवाद् अशनं वा ४ एतत् प्रतिज्ञया एकं साधर्मिकं समुद्दिश्य प्राणान् भूतानि जीवान् सन् समारभ्य समुद्दिश्य क्रीतम् उचतकम् आच्छेधम् अनिसृष्टम् अभ्याहृतम् अहल्योदेशिकं तच्चैवदत्तं स्यात् तन्नो स्वयं भुनक्ति नाऽयेन भोजयति अन्यमपि भुञ्जानं न समनुजानातीति स महत आदानाद् उपशान्त उपस्थितः प्रतिविरतः स भिक्षुः । अथ पुनरेवं जानीयात् तद्यथा - विद्यते ते पराक्रमे यदर्थाय ते इमे स्युः, तद्यथा- आत्मनः पुत्राद्यर्याय यावदादेशाय पृथक् प्रग्रहणार्थं श्यामाशाय प्रातराशाय सन्निधिसन्नि चयः क्रियते इद्द एतेषां मानवानां भोजनाय तत्र भिक्षुः परकृतं परिनिष्ठित मुमोत्पादनेषणाशुद्धं शस्त्रातीतं शस्त्रारिणामितम् अविसितम् एषितं वैषिकं सामुदानिकं प्राप्तमशनं कारणार्थाय प्रमाणयुक्तम् अनोपानगलेपनभूतं संयमयात्रामात्रावृत्तिकं बिलमिव पन्नगभूतेनात्मना आहारमाहरेत् । अन्नमन्नकाले पानं पानकाले वस्त्रं वस्त्रकाले लयनं लगनकाले शयनं शयनकाले । स भिक्षुः मात्राज्ञः - अन्यतरां दिश मनुदिशं वा प्रतिपन्नो धर्ममाख्या श्येत् विभजेत् कीर्त्तयेत् । उपस्थितेषु वा अनुपस्थितेषु वा शुश्रूषमाणेषु प्रवेदयेत् शान्तिविरतिम् उपशमं निर्माणं शौचम् आर्जवं मार्द्दनं लाघवम् अनतिपादिकं सर्वेषां प्राणानां सर्वेषां भूतानं यावत् सच्चानामनुविचिन्त्य कीर्त्तयेद् धर्मम् । स भिक्षु धर्म कीर्त्तयन् नो अन्नस्य हेतोः धर्म माचक्षीत, नो पानकस्य हेतोः धर्ममाचक्षीत, नो वस्त्रस्य हेतोः धर्ममात्रक्षीत, नो लयनस्य हेतोः धर्ममाचक्षीत, नो शश्नस्य हेतोः धर्ममानीत, नो अन्येषां त्रिरूपरूपाणां कामभोगानां हेतो धर्ममाचक्षीत, अम्लानो धर्ममात्रक्षीन, नाऽन्यत्र कर्मनिर्जराय धर्ममाचक्षीत । इह खलु तस्य भिक्षरन्तिके धर्मश्रुला निशम्य उत्याने नोत्थाय वीराः अस्मिन् धर्मे समुत्थिताः ये तस्य भिक्षोरन्तिके धर्म श्रुला निशम्य सम्यगुत्थानेन उत्थाय वीराः अनि धर्मे समुत्थितास्ते एवं सर्वोपगताः શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy