________________
जैनागमवारिधि-जैनधर्मदिवाकर-प्रधानाचार्य-पण्डित-मुनिश्रीमदात्मरामजीमहाराजानाम् आचारागसूत्रस्याचार
चिन्तामणिटीकायां
सम्मतिपत्रम् श्रीमल्लब्धसपाचार्यवयंघासीलालजित्कृता श्रीमदाचारागसूत्रप्रथमाध्ययनस्याचारचिन्तामणिवृत्तिःसाकल्येनोपयोगितापूर्वकं कर्णकुहरीकृता, वृत्तिरियं न्यायसिद्धान्तोपेता व्याकरणनियमोपनिबद्धा, तथा च प्रासङ्गिकरीत्या अन्यसिद्धान्तसङ्ग्रहोऽप्यस्यां याथातथ्येनाभासत एव, अपि च निखिला अपि विषयाः सम्यग व्यक्तीकृता लेखकेन, विशेषण प्रौढविषयाणां स्फुटतया गीर्वाणवाण्यां प्रतिपादनम् अधिकतरं मनोरञ्जकम् । अत आचार्यमहोदयो धन्यवादमहतीति ।। ___ आशासे जिज्ञासुमहोदया अस्याः सम्यग् अध्ययनेन जैनागमसिद्धान्तपीयूषं पायं पायं मनोमोदं विधास्यन्तीति । अस्याः परिशीलनेन चतुर्णामनुयोगानां परिचयं प्राप्तुवन्तु सज्जनाः। अथ आचार्यमहोदया एवमेवान्येषामपि जैनागमानां विशदव्याख्यानेन श्वेताम्बराणां स्थानकवासिनां महोपकृति विधाय यशस्विनो भविष्यन्तीति ।
पञ्चनप्रान्तान्तर्वति- लुध्यानामण्डल-स्थानकवास्तव्यो जैनमुनिरुपाध्यायं आत्मारामः।
विक्रमाब्दः २००२, मार्गशीर्षशुक्ला प्रतिपत् , शुभमस्तु ।
શ્રી આચારાંગ સૂત્ર : ૧