SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ [६८ ] - [ शकेश्वर महातीर्थकः पास्यति ?। जिनोऽप्याह-हे हरे! तावत्कालं शत्रुसङ्कटात् तव सेनारक्षकोऽहं भविष्यामि, त्वं निश्चिन्तो भव । तजिनवचनं श्रुत्वा हर्षोत्कर्षितमानसो हरिरष्टमेन तपसा पौषधागारे पौषधं विधाय ध्यानतत्परोधरणेन्द्र तोषयति स्म । अथ प्रातर्जरासन्धी हर्षपूरितमानसो जराग्रस्त हरिसैन्यं ज्ञात्वा चतुरङ्गचमृयुक्तो बाणवृष्टिं वितन्वानो यादवान् यावद् हन्तुं दधाव तावद् नेमिनिदेशादिन्द्रप्रेषितो मातलिनेमिरथसारथिर्यादवसैन्यपरितश्चतुर्दिक्षु संवतकसमीरण इव स्वैरं नेमिस्यन्दनं भ्रामयामास । स्यन्दनस्थः स्वाम्यपि शीघ्र सङ्ख्याऽतिगान् शरान् सर्वतोऽप्युच्चैर्मुमोच । तां स्वामिप्रेषितां बाणधोरणीं दृष्ट्वा जरासन्धसम्बधिनो राजानस्तद्रणे साक्षिण इव दूरे तस्थुः। अथ सदयोऽरिष्टनेमिर्वाणैः केषाश्चित कवचानि चिच्छेद, केषाश्चित् मुकुट-ध्वज-सायकादींश्च, सदयत्वाद् न पुनः प्राणांश्चिच्छेद । इतो ध्याननिलीनस्य नारायणस्य तृतीयेऽति प्रभापुञ्जान्तरस्थिता धरणेन्द्रानुज्ञया धरणमिया पद्मावती प्रगटीवभूव । तां पद्मावती सुरीगणसमन्वितां समालोक्य पादौ प्रणम्य नारायणः स्तुतिपूर्वमिदं प्राह । यथा-"धन्योऽद्याहं कृतार्थोऽस्मि पवित्रोऽद्यास्मि पावने !। अद्य मे सफलाः कामा यदभूद् दर्शनं तव ॥१॥ वर्णयामि कियद् देवि ! वैभवं ते स्वजिह्वया। शक्रादयोऽपि यद् वक्तुं शक्ता नो विबुधाधिपाः" ॥२॥ इति नारायणभक्तिवचःपीता परमेश्वरी हरि प्रत्याह हे हरे ! यत्कृते त्वया मत्पतिः संस्मृतः तत् कार्य बहि, यथाऽहं
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy